________________
प्रत्यक्षाभासचिन्ता
२०५ त्रिविषं कल्पनाशानं! प्रत्यक्षाभं मरीचिकायां जलाध्यवसायि भ्रान्तिज्ञानं संवृतौ वि संवादिव्यवसायसां वृतज्ञानं पूर्वदृष्टैकत्वकल्पनाप्रवृत्तं लिङ्गानुमेयादिज्ञानं । अविकल्पकञ्च एकं प्रत्यक्षाभं । कीदृशमाश्रयस्येन्द्रियस्योपप्लवस्तिमिरा धुपघातस्तस्माद् भवो यस्य तत्तथा । एवञ्च चतुर्विषञ्च प्रत्यक्षाभासं । (२८८)
नन्वविकल्पकं प्रत्यक्षं। ततस्त्रयमपीदं सविकल्पकत्वादेकः प्रत्यक्षाभासः। तत् किं भ्रान्तिज्ञानं मृगतृष्णिकायां जलावसायि संवृतिमतो द्रव्यादेनिं| अनुमान लिङ्गज्ञानं आनुमानिकं लिङ्गिज्ञानं 'स्मात्तं स्मृतिः आभिलापिकं चेति विकल्पप्रभेद आचार्य दि ग्ना गे नोक्त इत्याह (1)
अनक्षजत्वसिद्धयर्थमुक्ते द्वे भ्रान्तिदर्शनात्।
सिद्धानुमादिवचनं साधनायैव पूर्वयोः ॥२८९॥ द्वे सांवृतारोपितयोः कल्पनाज्ञानेऽनक्षजत्वस्यानिन्द्रियत्वस्य सिद्धपर्य भेदे'नोक्ते। परेषां तयोरक्षजत्वभ्रान्तिदर्शनाद् घटोयं द्वौ' कम्पत इत्यादि। जल-. मिदमिति च व्यवसायात्मकमिन्द्रियप्रत्यक्षमेव प्रतिपद्यत इति परो मन्यते तन्निरा सार्थ द्वयोरुपादानं । अनिन्द्रियत्वेन स्मृतिबलभावित्वेन सिद्धं च तदनुमावि च तस्य वचनं पूर्वयोः संवृतारोपितकल्पनयोरेवानक्षजस्वसाधनाय। तथा हि यत्पूर्वानुभूतसमयस्मृतिभावि न तत्प्रत्यक्षं। यथाऽनुमानादि। अनुभूतसमयस्मृतिसापेक्षा चावयविजलादिकल्पना इति विरुद्धोपलब्धिरुक्ता। (२८९)
- ननु सांवृतारोपितकल्पनायाः कथं प्रत्यक्षताशङ्कत्याह (1) .. संकेतसंश्रयान्यार्थसमारोपविकल्पने।
न प्रत्यक्षानुवृत्तित्वात् कदाचिद् भ्रान्तिकारणम् ॥२९०॥ बहूनां रूपादीनामेकार्थकारित्वख्यापनार्थ घट इत्यादिशब्दनिवेशः स संश्रयो हेतुर्यस्याः सा संकेत संश्रयाकल्पना दृश्यमानान्मरीचिनिचयादेरन्यस्य जलादेरा
"भ्रान्तिसंवृतिसत् ज्ञानमनुमा(ना)नुमानिक। ८ प्रमाणसमुः १ स्मार्ताभिलापिकञ्चेति प्रत्यक्षाभं सतैमिर" ॥ याचष्टे॥
संकेताश्रयकल्पना घटादि। अर्थान्तरारोपकल्पना मरीचिषु जलं। परोक्षार्थकल्पनाऽनुमानानुमानिकादिषु सम्बन्धकालदृष्टकत्वेन वृता॥
सत्त्वं द्रव्यं घटसंख्याक्षेपणसत्ता घटत्वादिषु । कल्पनमपि स्वसम्बित्तावध्यक्ष स्वसम्वेचत्वात् सुलादिवत् । " संकेतः परमाणुषु। संख्यासमच्चयव्यवच्छेनेन।