________________
२०४
प्र० वा० वृत्तौ (२ परिच्छेदः) तस्माद् भूतमभूतं वा यद् यदेवाभिभाव्यते ।
भावनापरिनिष्पत्तौ तत् स्फुटाकल्पधीफलं ॥२८५॥ यतो भावनाया भाव्यस्पष्टतायामाधिपत्यं । तस्माद् भूतमार्यसत्यादि अभूतमशुभादि यद्यदेवात्यन्तं भाव्यते। तद् भाव्यमानं भावनायाः सादरनिरन्तरदीर्घकालप्रवर्त्तितायाः परिनिष्पत्तौ स्फुटा कल्पधीः सा फलं यस्य तत्तथा।
(२८५)
तत्र प्रमाणं सम्वादि यत् प्राङ् निर्णीतवस्तुवत् ।
तद् भावनाजं प्रत्यक्षमिष्टं शेषा उपप्लवाः ॥२८६॥ - तत्र भावनाबलभाविषु स्पष्टानिम्विकल्पेषु यत्संवादि उपदर्शितार्थप्रापकं तद् भावनाजं प्रत्यक्षं प्रमाणमिष्टं।
किमिवेत्याह (1)
प्राक् प्रथमपरिच्छेदे निर्णीतं वस्तु सत्यचतुष्टयं तस्मिन्निव। यथा आर्यसत्यविषयं भावनाबलजं संवादित्वात्प्रत्यक्षं प्रमाणमेवमन्यदपीदृशं। शेषा' अयथार्था उपप्लवा भ्रमा यथा अशुभा पृथ्वीकृत्स्नादिप्रत्ययाः। (२८६) कल्पनापि स्वसंवित्ताविष्टा नार्थे विकल्पनादिति व्याख्यातुमाह (1)
शब्दार्थप्रााह यद् यत्र तज्ज्ञानं तत्र कल्पना।
स्वरूपश्च न शब्दार्थस्तत्राध्यक्षमतोऽखिलम् ॥२८७।। शब्दार्थग्राहि अन्यव्यवच्छेदस्य ग्राहकं यज्ज्ञानं यत्र विषये तज्ज्ञानं तत्र कल्पनोच्यते। ज्ञानानां स्वरूपञ्च स्वलक्षणात्मकं न शब्दस्यार्थो विषयोऽतो वाच्यत्वातत्र स्वरूपेऽखिलं ज्ञानमविकल्पत्वावध्यक्षं। उक्तं चतुम्विधं प्रत्यक्षं ॥xx ॥ (२८७)
७. प्रत्यक्षाभासचिन्ता प्रत्यक्षाभासमिदानीं वक्तव्यं ।
त्रिविधं कल्पनाज्ञानमाश्रयोपसवोद्भवम् । अविकल्पकमेकश्च प्रत्यक्षाभं चतुर्विधम् ॥२८८॥
'अव्यतिभिन्नायो नरव्यापितार्थ उक्तः। अत्रापि स्मृतिरस्तीति निविषयत्वं स्फुटयति।
मात्रशब्दव्यवच्छेद्याः।