SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ योगिज्ञानप्रत्यक्षम् २०३ .१ प्राक् प्रथमपरिच्छेदे " योगिनां ज्ञानं सत्यविषयमुक्तं । तेषां योगिनां भावनामयं भावनाहेतुनिष्पत्तिकं तत् ज्ञानं सत्त्यस्वरूपविषयत्वेन विभूतकल्पनाजालम विकल्पत्वाच्च स्पष्टं विशदज्ञेयाकारमेवावभासते । ( २८१ ) भावनाभवं कथं स्पष्टमित्याह (1) कामशोकभयोन्मादचौरस्वप्राद्युपप्लुताः । अभूतानपि पश्यन्ति पुरतोवस्थितानिव ॥ २८२॥ कामश्च शोकश्च भयञ्च तैरुन्मादाश्चौरस्वप्नादयश्चेति कामशोकभयोन्मादचौरस्वप्नादिभिरुपप्लुता भ्रान्तास्तेऽभूतानप्यर्थान् भावना वशात् पुरतोऽवस्थिता - 402 निव पश्यन्ति । यस्मात्तदनुरूपां प्रवृत्तिं चेष्टन्ते । (२८२) भवतु भावनाजं स्पष्टमविकल्पं तु कथमित्याह (1) १ न विकल्पानुबद्धस्यास्ति स्फुटार्थावभासिता । न विकल्पेनानुबद्धस्य संस्तुतस्य ज्ञानस्य स्फुटार्थावभासितास्ति । ननु विप्लववशात् विकल्पकमपि स्वप्ने स्पष्टाभं ज्ञानं भवतीत्याह (1) स्वप्नेपि स्मर्यते स्मार्त्त न च तत्तादृगर्थवत् ॥ २८३॥ स्वप्नेपि स्मात्तं स्मरणं किञ्चिदुत्पद्यते । न च तत्प्रबोधावस्थायां ताबूगर्व'खादृशो निव्विकल्पेनानुभूतोऽर्थस्तादृशार्थेन युक्तं स्मर्यंते । किन्तर्हि अस्पष्टार्थमेव स्वप्नस्मरणं स्मर्यंते । (२८३) नन्वभूतार्थभावनाब'लजं भवतापि स्पष्टाभमविकल्पञ्च सिद्धान्ते नेष्यते इति तेन सह विरोध इत्याह (1) अशुभा पृथिवी कृत्स्नाद्यभूतमपि वर्ण्यते । स्पष्टाभं निर्विकल्पच भावनाबलनिर्मितम् ॥ २८४॥ अशुभ विनीलकविपूयकास्थिसंकलादिका पृथ्वीकृत्स्नादि भूमयत्वादि अभूतमसत्यमपि भावनाबलेन निर्मितं स्पष्टाभं निर्व्विकल्पकञ्चास्माभिर्व्वर्व्यत इति नास्ति सिद्धान्तविरोधः । ( २८४ ) ' योगिनामप्यागमविकल्पाव्यवकीर्णमर्थमात्रदर्शनं प्रत्यक्षमिति व्याचष्टे । १ यद् भाव्यते तत् स्फुटं स्यादित्यस्य वृष्टान्तोयं श्लोकः । अनुमेयं । 8 द्विधा स्वप्नज्ञानं स्पष्टमेकमन्यदतीतस्वप्नाकारं ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy