________________
२०२
प्र० वा. वृत्तौ (२ परिच्छेदः) तथा हि (1)
अभिन्नवेदनस्यैक्यं यन्नैवं तद् विभेदवत् ।
सिध्येदसाधनत्वेस्य न सिद्धं भेदसाधनम् ॥२७८॥ अभिन्नमेकाकारं वेदनं यस्य तस्यैक्यं यन्नैवं भिन्नवेदनं तद्विभेद' वत् सिध्येत् (1) अस्यकाकारज्ञानस्याभेदम्प्रत्यसाधनत्वे तद्विपरीतभिन्नाकारवेदनं भेदसाधनमसिद्धं । (२७८)
भिन्नाभः सितदुःखादिरभिन्नो बुद्धिवेदने।
अभिन्नाभे विभिन्ने चेत् भेदाभेदौ किमाश्रयौ ॥२७९॥ सां ख्य स्य तु सितदुःखादिभिन्नाकारोऽभिन्न इष्टः। बुद्धिवेदने त्वभिन्नाभे विभिन्ने इष्टे चेत्। भेदाभेदौ किमाश्रयौ किं निमित्तौ ते व्यवस्थापनीयौ । (२७९)
ननु वे दनाचेतनासंज्ञादीनां चैत्तानां महाभूमिकादीनां सकृदुत्पन्नानां भेदः परस्परं प्रतीयते। अथ चास्ति। तद्वद्बुद्धिसुखयोरपि स्यादित्याह।'
तिरस्कृतानां पटुनाप्येकदाऽभेददर्शनात् ।
प्रवाहे वित्तिभेदानां सिद्धा भेदव्यवस्थितिः ॥२८०॥ पटुना सुखदुःखा दीनां वेदनास्कन्धसंगृहीतेन चैत्तेन तिरस्कृतानामभिभूतानां संज्ञादीनामेकदाभेददर्शनात् । प्रवाहे चित्त सन्ताने सुखाद्यभावकाले स्वरूपेणोपलक्षितानां भेदव्यवस्थितिः सिद्धा। रवेरुदये तारका अनुपलक्षिता अपि निशायामुपलक्ष्यमाणा भेदेन व्यवस्थाप्यन्त एव। तस्माज्ञानात्मानः स्ववेदनाश्च सुखादय इत्याख्यातं स्ववेदनं ॥xx॥ (२८०)
(४) योगिज्ञानप्रत्यक्षम् योगिज्ञानमाख्यातुमाह (1)
प्रागुक्त योगिनां ज्ञानं तेषां तद् भावनामयम् । विधूतकल्पनाजालं स्पष्टमेवावभासते ॥२८१॥
'विभेदोस्यास्तीति कृत्वा। भेदाभेदनिबन्धनाभावमाह।
वैभा ष्या वेदनादिसंप्रयुक्तविप्रयुक्तवादिनः प्रत्याहुः। एकैकस्योपलब्धः। नैष दोषः। यता कमतीये तष्यति अन्यत्र देष्टि रज्यते विरज्यते। • कदाचित्तिरस्कारेपि चित्ताभिसंस्कारकाले चेतना वेद्यत एव यतः। नैवं प्रवाहेपि बुद्धिसंवेदनयोर्मेदवेदनमस्ति ।