________________
स्वसंवेदनप्रत्यक्षम्
यस्मात्सुखादेब्र्बाह्यस्य भावनातस्तारतम्यानुयोगयोगः ।
तस्मात्त आन्तरा एव,
तस्मादसुखादय आन्तरा ज्ञानस्वभावा अबाह्या अभ्युपगन्तव्याः । किञ्च (1)
वेद्यत्वाच्च चेतनाः ।
संवेदनं न यद् रूपं न हि तत्तस्य वेदनम् ॥ २७४॥
सम्वेद्यत्वाच्च हेतोस्ते चेतनाः । तथा हि सम्वेदनं तद्रूपं यद्विषयस्वरूपं
न भवति तत्संवेदनं तस्य विषयस्य वेदनं यस्मान्न भवति । न ह्यविषयस्वरूपं प्रतिविषयं भेदव्यवस्थां कर्तुमर्हतीति साकारं ग्राहकं । तथा च साकारं ज्ञानमेव सुखमस्तु तदुपधायकं तु बाह्यमयुक्तं । भावनाविशेषेण सुखादिवेदनस्याविशेषदर्शनात्। बाह्याधीनत्वे च तदयोगात् । (२७४)
स्यादेतद् (i)
अतत्स्वभावोऽनुभवो बौद्धांस्तान् सन्नवैति चेत् । मुक्त्वाभ्यक्षस्मृताकारां संवित्तिं बुद्धिरत्र का ॥ २७५॥
२०१
भावनातस्तारतम्ययोगिनस्तान् बुद्ध्यात्मकसुखादीन् अतत्स्वभावोऽमुख्याद्याकारोऽनुभवः सन्नवैति प्रत्येतीति चेत् । संवित्तिमध्यक्षाकारी हर्षविषादाकारां स्मृताकारामतीतसुखादिकल्पनारूपां सौमनस्यलक्षणां मुक्त्वा अत्र संवेदनावसरे का परा बुद्धिरनुभूयते । यस्याः सुखाद्यात्मकत्वमध्य 'वसायात्मकत्वञ्चेष्यते । (२७५) तांस्तानर्थानुपादाय सुखदुःखादिवेदनम् ।
एकमाविर्भवद् दृष्टं न दृष्टं त्वन्यदन्तरा ॥२७६॥
तांस्तानर्थानिष्टा ननिष्टानुपादायाश्रित्येकं सुखदुःखादिवेदनमाविर्भवद् वृ अन्यद् बुद्धिरूपमन्तरा विषयसंवेदनयोरन्तराले न दृष्टं । (२७६) संसर्गादविभागश्चेदयोगोलकवह्निवत् ।
भेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुषु ॥ २७७॥
बुद्धिचेतनयोः संसर्गादयोगो 'लकवयोरिवाविभागो भेदानुपलब्धिरिति चेत् । एवं भिन्नाकारानुभवेप्यभेदकल्पनायां सर्व्ववस्तुषु भेदाभेवव्यवस्थोच्छिना स्यात् । (२७७)
' स्वप्रक्रियामात्रदीपनमेतत् । * अयःपिण्डमग्निदीप्तं ।
२६
३ * बुद्धिः ।
8 तथा एकाकारेप्ययोगोलकवत्संसर्गकल्पनायां ।