________________
२००
प्र० वा. वृत्तौ (२ परिच्छेदः) बुद्धरपि प्रधानपरिणामरूपाया भावनातारतम्यात् सुखाद्यात्म'ताविशेषाद् बाह्याविशेषेपि प्रीतिपरितापतारतम्यस्याविरोधितेष्यते । यदि इदानीमन्याभ्युपगमे बाह्योऽर्थः स सुखाद्यात्मेति कथं गम्यते । अनुभूयमानं सुखमन्यत्रासंभवद् बाह्ये व्यवस्थापनीयं । (२७१)
अग्राह्यग्राहकत्वाच्चेद भिन्नजातीययाः पुमान् ।
अग्राहकः स्यात् सव्वस्य ततो हीयेत भोक्तृता ।।२७२॥
यदा तु बुद्धिरपि सुखात्मिका तदा किं बाह्यसुखकल्पनया। बाह्यमहतोर39b सुखरूपत्वाच्च भिन्नजातीययो ह्यप्राहकत्वाभावात् सुखााद्यात्मता बाह्यस्य
गम्यत इति चेत् । पुमान् चेतनो निर्गुणत्वादसुखादिरूपो ग्राह्यस्याचेतनस्य सुखाद्यात्मकस्य सर्वस्य भिन्नजातीयत्वात् अग्राहकः स्यात्। ततोऽग्राह कत्वात् भोक्ततास्य हीयते। अनुभविता हि भोक्तोच्यतेऽनुभवाभावे कथं भोक्ता। (२७२)
कार्यकारणतानेन प्रत्युक्ताऽकार्यकारणे ।
ग्राह्यप्राहकताभावाद् भावेन्यत्रापि सा भवेत् ॥२७३॥ बुद्धिसुखयोर्णाह्यग्राहकाभावात् । 'नाकारणं विषयः' इति कार्यकारणता। ततो ग्राह्य स्य सुखाद्यात्मकत्वात् तत्कार्यया बुद्धयापि सुखाद्यात्मिकया' भवितव्यमिति परैरुक्ता कार्यकारणता सानेनातिप्रसङ्गेन प्रत्युक्ता। तथा हि भोक्तापि ग्राहक इति स च कार्यसुखाद्यात्मकः कथं स्यात्। अपि चाकार्यकारणे बुद्धिसुखे ग्राह्यग्राहकतायाः कार्यकारणतानिबन्धनाया अभावात्। ग्राहग्राहकत्वभावात् कार्यकारणभावस्य च भावेऽभ्युपगम्यमानेऽन्यत्रात्मविषय योरपि सा कार्यकारणता स्यात् । ग्राह्यग्राहकताया भावात्। (२७३)
भावात। (२७३)
.
..
नीलादि सुखादि च भिन्नमेव। नीलसंप्रहर्षणाकारयोर्भेदात्। 'प्रधानान्महान्महतोहंकारस्ततः पञ्च शब्दादीनि ततः पञ्चाकाशादीनि पञ्च कम्र्मेन्द्रियाणि वाक्पाणिपादपायूपस्थानि पञ्च बुद्धीन्द्रियाणि मनश्च ... सांख्यस्य। ग्राह्यग्राहकत्वाभावः प्रसज्येद (?ता) स्ति स न स्यात्।
विषयबुद्धयोः। - न बाह्यं ज्ञाने संक्रामति स्वरूपेण वेद्यते वाऽग्न्यादाहप्रसङ्गात् । __. "बुढचा कटो विषयाकारः पुमांसमध्यारोहति ततोस्य भोक्तृत्वं । - विजातीययोरपि।