________________
-
+
क. स्वसंवेदनप्रत्यक्ष अर्थात्मा स्वात्मभूतो हि तेषां तैरनुभूयते ।
तेनार्यानुभवख्यातिरालम्बस्तु तदाभता ॥२६॥ अत एवार्थानुभवः कथं स्ववेदनमर्थज्ञानयोर्भेदात् तद्वेदनयोश्च भेदस्य न्यायप्राप्तत्वादिति ब्रुवाणः प्रतिक्षिप्तः। तथा हि-तेषां सुखादीनामात्मा अर्याकारः प्रतिबिम्बसंक्रान्त्या स्वात्मभूतः स्वभावभूतस्तैः सुखादिभिरनुभूयतेऽपरोक्षत्वात्। तेनोपचारेणार्थस्य परभूतस्य प्रतिबिम्बहेतोरनुभवस्य ख्यातिः प्रसिद्धिः। ततश्च ज्ञानस्यालम्बोऽर्थालम्बनं तदाभता अर्थाकारत्वं विचार्यमाणमवशिष्यते न तु पारमाथिकमालम्व्यालम्बकत्वं नाम। (२६७)
ग. स्वसंवेदने सांख्यमतनिरासः इदानीं सांख्य म तमुत्थापयन्नाह (1)
कश्चिद् बहिःस्थितानेव सुखादीनप्रचेतनान् । ... प्राह्यानाह न तस्यापि सकृयुक्तो द्वयग्रहः ॥२६८॥
कश्चिद् बहिःस्थितानेव न त्वात्मसमवायिनः । प्रधानपरिणामजत्वेन सुखदुःखमोहस्वभावत्वात् अर्थानप्रचेतनान् आत्मन एव चेतनत्वाद् बुद्धिदर्पणे जडा त्मनि स्वच्छेऽर्थचेतनयोः प्रतिबिम्बसंक्रान्तिद्वारेण छायापत्या चेतनस्य. मायानाह (1) तस्यापि मते तपस्य सुखस्य नीलादेश्च सहन् ग्रहो नियमेन न युक्तः। कदाचिद्रूपनिरपेक्षमपि रूपसुखमनुभूयेत । (२६८) . ... सुखाद्यभिन्नरूपत्वानोलादेश्चेत् सकृद् प्रहः। --
भिन्नावभासिनोयिं चेतसोस्तदभेदि किम् ॥२६९॥ सुखादेरभिन्न रूपत्वान्नीलादेः सकृनियमेन ग्रहश्चेत्। भिन्नावभासिनोभिन्नाकारयोः सुखनीलचेतसोमा॑ह्यं तत् किमभेदि इष्यते। सुखदुःखादीनां नीलपीतादीनाञ्च भिन्नमनोग्राह्यानामेकत्वमेवं स्यात् । (२६९) किञ्च (1)
तस्याविशेषे बाह्यस्य भावनातारतम्यतः।
तारतम्यञ्च बुद्धौ स्यान्न प्रीतिपरितापयोः ॥२७०॥ यदि नीलाद्येव सुखाद्यात्मकं तदा तस्य बाह्यस्य सुखदुःखाद्यात्मतयाऽविशेषे विशेषाभावे रुच्यरुचिविषयतया भावनायास्तारतम्यतः। तारतम्यञ्च बुद्धौ. प्रीतिपरितापयोर्न स्यात्। न हि ग्राह्याविशेषे तज्ज्ञानं विशिष्यते। (२७०)
सुखाद्यात्मतया बुद्धरपि यद्यविरोधिता। स इदानीं कथं बायः सुखाद्यात्मेति गम्यते ॥२७॥