________________
• १९८ . प्र. वा. वृत्तो (२ परिच्छेदः)
विषयसुखग्राहिण्योयोरिन्द्रियबुद्धिमनोबुद्धयात्मिकयोः। तस्य सुखहेतोदु:खहेतोश्च विषयस्य सम्भवात् युगपदुत्पत्तावभिमतायां सकृवर्थस्य सुखदुःखहेतोः सम्भवे सति सुखदुःखविवो स्यातां । (२६२)
स्यादेतत् (0) . सत्यान्तरेप्युपादाने ज्ञाने दुःखादिसम्भवः ।
नोपादानं विरुद्धस्य तच्चैकमिति चेन्मतम् ॥२६३।।
न केवलमर्थे सति किन्तयन्तिरे समनन्तरप्रत्यये ज्ञान उपादाने सति 39a दुःखाबिसंभवः। तच्चोपादानापेक्षं ज्ञानं विरुद्धस्य सुख दुःखादेर्न कारणं भवितुमहंतीति मतं चेत् (१ २६३) अत्राह (1)
तदज्ञानस्य विज्ञानं केनोपादानकारणं ।
आधिपत्यं तु कुर्वीत तद्विरुद्धेपि रश्यते ॥२६॥ तविज्ञानमज्ञानस्य सुखदुःखादेरुपादानकारणं केन हेतुना सम्मतं । समानजातीयं कारणमुपादानं नान्यत्। न च सुखादिज्ञानमिष्टं।ज्ञानमज्ञानकार्ये आधिप'त्यं सहकारित्वं कुर्वीत। तदाधिपत्यं विरुवेपि का ये दृश्यते। (२६४)
अणोर्यौंक आलोको नक्तञ्चरतदन्ययोः ।
रूपदर्शनवैगुण्यावैगुण्ये कुरुते सकृत् ॥२६५॥ . यथा एक आलोको नक्तंचरस्य मनुष्यादेरक्ष्णो रूपदर्शनस्य वैगुण्यावैगुण्ये यथाक्रमं सकृत् कुरुते। (२६५)
‘तस्मात् सुखादयोर्थानां स्वसंक्रान्तावभासिनाम् ।
वेदकाः स्वात्मनश्चैषामर्थेभ्यो जन्म केवलम् ॥२६६।। .. यस्माद न्येन सुखादीनां' वेदनं न घटते। तस्मात्सुखादयो ज्ञानात्मानः स्वस्मिन् स्वरूपे प्रतिबन्धद्वारेण संकान्तावभासनशीलाश्च येऽर्थानां तेषां वेदकाः। आत्मनश्चापरोक्षत्वादकाः। अर्थसरूपस्यात्मनोऽपरोक्षतैव अर्थवेदनं स्ववेदनञ्च। न त्वन्यः कश्चिद् ग्रहणप्रकारः। ततश्चैषां सुखादीनामर्थसरूपाणामर्षेभ्यो जन्मैव केवलं ग्रहीतृत्वं नापरः कश्चिद् व्यापारः। (२६६)
'सिद्धान्त्येवाह (1)आधिपत्यमानं स्यात् । -नक तावतोपादानत्त्वात्। महत्तस्वाबिना।