________________
क. स्वसंवेदनप्रत्यक्षम्
अयुक्तं चैतत् ।
तस्य तद्धेत्वर्थमगृहृतः ॥ २५८॥ न हि तस्य सुखादेर्हेतुमर्थं स्त्र्यादिमगृह्णतः १ ( 1२५८)
न हि संवेदनं युक्तमर्थेनैव सह ग्रहे ।
सुखस्य संवेदनं युक्तं । अर्थेनैव सह सुखस्येन्द्रियधिया ग्रहे नास्ति दोष इति चेत् । न (1)
किं सामर्थ्य सुखादीनां नेष्टा धीर्यत्तदुद्भवा ॥२५९॥
सुखादेरिन्द्रियबुद्धिजनने किमस्ति सामथ्यं येन तस्याः स विषयः सन् सह गृह्येत । यद्यस्मात्तवुद्भवा सुखादुद्भवा नेन्द्रियधीरिष्टा तस्मान्न तद्ग्राहिका । (२५९)
विनार्थेन सुखादीनां वेदने चक्षुरादिभिः ।
रूपादिः स्त्र्यादिभेदोऽक्ष्णा न गृह्येत कदाचन ॥ २६०॥
कस्मादेवमित्याह (1)
ततश्च कथमर्थसुखयोः सहवेदनं । अर्थेन विनैव चक्षुरादिभिश्चक्षुरादिज्ञानैः सुखादीनां वेदने चाभ्युपगम्यमाने स्त्र्यादेर्भेदो विशेषो रूपादिः सुखहेतुरक्ष्णा चक्षुर्शा(a) वाचन गृह्येत । (२६० )
न हि सत्यन्तरङ्गेर्थे शक्ते धीर्बाह्मदर्शनी ।
अर्थग्रहे सुखादीनां तज्जानां स्यादवेदनम् ॥२६१॥
१९७
अन्तरङ्गे सन्निहिते अर्थे क्षेत्रज्ञसमवेते सुखादौ शक्ते स्वग्राहिज्ञानोत्पादनक्षमे सति न हि बाह्यदर्शनी धीरर्थग्राहिणी युक्ता । बहिरङ्गो बाह्यर्थ इन्द्रियालोकादिसहकार्यपेक्षणात् । सुखादिस्तु न तत्सापेक्ष इति तस्माज्जाता घींस्तमेव गृह्णीयात् । इन्द्रियधियाऽर्थग्रहे स्वीक्रियमाणे सुखादीनां तज्जानामर्थदर्शनप्रसूतानामर्थमवेदन' स्यात् । इन्द्रियबुद्धिरर्थग्रह एवोपयुक्ता तत्कालमन्या 'च धीर्नास्ति पश्चात् ज्ञानान्तरकाले विषयबलभाविनः सुखादे 'रभाव इति कथं वेदनं। (२६१)
धियोर्युगपदुत्पत्तौ तत्तद् विषयसम्भवात् । सुखदुःखविदौ स्यातां सकृदर्थस्य सम्भवे ॥२६२॥
१ अर्थग्रहणनिरपेक्षं न तत् सिद्धिकल्पं ॥
विषयाभावादेव !