SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १९६ प्र० वा. वृत्तौ (२ परिच्छेदः) इदानीं परवेद्यतामेषां निषेद्धमाह (1) यस्यार्थस्य निपातेन ते जाता धीसुखादयः। मुक्त्वा तं प्रतिपद्येत सुखादीनेव सा कथम् ॥२५५॥ यस्यार्थस्य स्त्र्यादेनिपातेन सन्निधानेन ते धीसुखादयो जातास्तं कारणभूतमाकारार्पणक्षम मुक्त्वा सुखादीनेव सहभाविनो विषयलक्षणरहितान् सा बुद्धिः कथं प्रतिपद्येत। अकारणस्य विषयत्वेतिप्रसङ्गात्। (२५५) अविछिन्नाथ भासेत तत्सवित्तिः क्रमग्रहे। तल्लाघवाच्चेत्तत्तुल्यमित्यसंवेदनं न किम् ॥२५६॥ अथेन्द्रियज्ञानेन विषयग्रहस्तदनन्तरं मानसाध्यक्षेण सुखादिग्रह इति क्रमग्रहे स्वीक्रियमाणे तयोविषयसुखयोः संवित्तिरविच्छिन्ना योगपद्येन न भासेत। अस्ति च युगपत्प्रतिभासः परिस्फुटः। तयोर्बाह्यसुखग्राहिमनसोधिवात् योगपद्यप्रतिभासश्चेत् तल्लाघवं प्रतिक्षणमेकैकत्वसंवेदनाभावस्यापि तुल्यमित्यसम्वेदनमेव साहित्यस्य किं न भवति । (२५६) इन्द्रियबुद्धयैवैकया बाह्यसुखयोः सकृद्ग्रहणमिति चेत्। आह । न चैकया द्वयज्ञानं नियमादक्षचेतसः।। न चैकया तयस्य ज्ञानं संभवति। अक्षचेतसोर्बाह्यरूपादिग्रहण एव नियमा-' - नियतत्वात् सुखा'यात्मगुणग्रहणा भावात्। किञ्च (1) सुखाद्यभावेप्याच्च जातेस्तच्छक्त्यसिद्धितः ॥२५॥ नाकारणं विषयः सुखाद्यभावेपि केवलादर्थादिन्द्रियबुद्धेर्जातरुत्पादात्। तस्य सुखादेरिन्द्रियबुद्धिजननं प्रति शक्त्यसिद्धरविषयत्वं । २ (२५७) पृथक् पृथक् च सामर्थ्य द्वयोर्नीलादिवत् सुखम् । गृह्येत केवलं; .. यो रूपिसुखाद्योः पृथक् पृथग्ज्ञानोपपत्तौ सामर्थ्य वाभ्युपगम्यमाने नीलादिवत् केवलं सुखं गृह्येत। 'सुखाद्यात्मनः संयोगजमनसा गृह्यते इत्युपगमात्। २ सुखादयो नात्मानं विदुरिति बुद्धपा वेधेरनिति कि सहजया उत्तरकालया वा तत्र। सहिता व्यस्ताश्च यथा नीलादयो ज्ञानहेतुस्तद्वत् सुखादिग्विषयश्च स्यादिति इयं ग्रहणमविरुद्धमित्याह।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy