________________
. . क. स्वसंवेदनप्रत्यक्षम्
१९५ १ तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः। - .
तत्सुखादि किमज्ञानं विज्ञानामिन्नहेतुजम् ॥२५॥ तबूपिणो विवक्षितकरूपवन्तोऽतदूपिण इतररूपवन्तो भावा यथाक्रमं त - पाद् दृष्टकरूपाखेतोः सामग्रीलक्षणाज्जाता अतद्रूपहेतुजाता विलक्षणसामग्रीजाता भवन्तीति तावत् स्थितं। तत् तस्मादिमं न्यायमुल्लङध्य विज्ञानेन सहाभिन्न एको हेतुरिन्द्रियविषयमनस्कारादिसामग्रीलक्षणस्तस्मा(त्) जातं सुखाविक कस्मादज्ञानं समानसामग्रीप्रसूतत्वात् द्वयमपि ज्ञानं स्यान वा किञ्चित् । (२५१) . अभिन्नहेतुकतामेव समर्थयितुमाह (1)
सार्थे सतीन्द्रिये योग्ये यथास्वमपि चेतसि ।
दृष्टं जन्म सुखादीनां तत्तुल्यं मनसामपि ॥२५२॥ __ यस्य यदात्मीयं जनकं तस्मिन्निन्द्रिये सार्थे सविषये योग्ये कार्योत्पादनं प्रति चेतसि समनन्तरप्रत्यये सति सुखादीनामपि जन्म दृष्टं। तद्यथास्वमिन्द्रियादिषु योग्येषु सत्सु जन्म दर्शनं मनसां ज्ञानानामपि तुल्यं । अतस्तुल्यहेतुकत्वात् तुल्यजातीयतैव युक्ता नान्यथा क्वचिदेकता स्यात् । (२५२) ... तुल्यहेतुकत्वेपि संस्कारादेनियामकत्वात् सुखादिकमज्ञानं स्यादित्याह (1)
असत्सु सस्सु चैतेषु न जन्माजन्म वा कचित्।
दृष्टं सुखार्बुद्धेर्वा तत्ततो नान्यतश्च ते ॥२५३॥ .. असत्स्विन्द्रियादिषु दुःखादेर्बुद्धेवा जन्म न क्वचिदिष्टं। सत्सु च एतेष्विन्द्रिया-- दिषु अजन्म वा सुखादेर्बुद्धो न क्वचिद् दृष्टं" (1) तत् तस्मात् तत इन्द्रियादेदृष्टसामर्थ्यात् कारणात् ते सुखबुद्धी जायते । अन्यतः संस्कारादेर्न ते तस्य सामर्थ्यादर्शनात् । (२५३)
. ख, सुखादिपरवेद्यतानिरास: नन्वभिन्नहेतुकत्वे सुखदुःखादिभेदश्च न स्यादित्याह (1)
सुखदुःखादिभेदश्च तेषामेव विशेषतः ॥
तस्या एव यथा बुद्धन्धिपाटवसंश्रयाः ॥२५४॥ ... सुखदुःखादिभेवश्चावान्तरस्तेषामिन्द्रियादीनामेव हेतूनां विशेषतोऽवान्तरात्। यथा तस्या बुद्धरेवान्तरहेतुविशेषात् मान्धपाटवसंश्रयाः परस्परसंभविनो भवन्ति (1) तस्मात् सुखादयो विज्ञानेनाभिन्नहेतुकत्वाद्विज्ञानस्वभावा एवेति' स्थितं। (२५४)