________________
प्र० वा. वृत्तौ (२ परिच्छेदः)
(३) क. स्वसंवेदनप्रत्यक्षम् स्वसम्वेदनमाख्यातुमाह (1) 1अशक्यसमयो ह्यात्मा रागादीनामनन्यभाक् ।
तेषामतः स्वसंवित्तिर्नाभिजल्पानुषङ्गिणी ॥२४९॥ रागद्वेषसुखदुःखादीनां सर्वचित्तचत्तानामात्मसंवेदनं प्रत्यक्षमविकल्पत्वात् ।
तथा हि (1) रागादीनामात्मा स्वरूपमनन्यभाक् नान्यं भजते। स्वरूपमात्रावस्थितेः । तस्मादशक्यः समयः संकेतोऽस्मिन् अतः संकेताविषयत्वात् तेषां रागादीनां स्वस्यात्मनः सम्वित्तिः प्रकाशोऽभिजल्पो वाचकशब्दोल्लेखस्तदनुषङ्गो यस्यास्ति सा तथा न भवति । वाच्यं हि वाचकेन संयोज्यत। न च रागाद्यात्मा वा च्यस्ततस्तत्प्रकाशो न शब्दसंगतः। (२४९) ।
अवेदकाः परस्यापि ते स्वरूपं कथं विदुः। ---ननु रागसुखादय आत्मगुणा': परस्य, बाह्यस्याप्यवेदनाङ्गज्ञातत्वात् ते स्वरूपं कथं विदुः । वेदकस्य कदाचित् स्ववेदनं संभाव्येत। अवेदकं च न क्वचिदुपयोगि। यदि न स्ववेदना रागादयस्तदा कथं वेदयन्त इत्याह (1)
एकार्थाश्रयिणा वेद्या विज्ञानेनेति केचन ॥२५०।। एकोर्थ आत्मा आश्रयो रागादिभिः सह यस्यास्ति तेनैकार्थाश्रयिणा ज्ञानेन वेद्या . रागादय इति केचन नै या यि का दयः। (२५०)
अत्राह (1)
RAMINAOURemamal
१ रागाविसुखादिषु स्वसम्वेदनमिन्द्रियानपेक्षवामानसं प्रत्यक्षमिति वृद्धिः। अत्र च नात्मसंयोगमात्रभावित्व सुखादेईष्टमिति दृष्टग्रहणात्। . २ वैशेषिका ज्ञानाद् व्यतिरिक्तं सुखाविकमात्मगुणमाहुः। सुखाविज्ञानबाह्यमिति सांख्या एतवपाकरणाद्यर्थ मानसग्रहणं । साततिक स्ववेदनं सर्वेन्द्रियकालिकत्वात् । पारावाहि च प्रत्यक्षसिद्धत्वात् । अविकल्पञ्च स्वप्ने स्पष्टभासात् । कामशोकादिष्वपि सप्रयोजनञ्च। विनानेन स्मृतेरयोगात्। स्वसम्वित्तेनिम्विकल्पत्वं साध्यं सा च ज्ञानस्यापि नास्ति कुतः सुखादीनां ।
यादृशो यादृशादुत्पन्नो दृष्टस्तादृशोन्योपि तादृशादेव अन्यावृशस्तु यावृशा इति स्थिते।