________________
ननु स्वज्ञानेन स्वालम्बनज्ञानेन एककालिकस्तुल्यकालिकोर्थः । तदतुल्यक्रियाकालः कथं स्वज्ञानकालिकः । सहकारी भवेदर्थ इति चेदाचेतसः || २४५||
अत्राह (1)
मानसप्रत्यक्षम्
तेन सहकारिसम्मतेन्द्रियज्ञानेनातुल्यः क्रिया' कालो यस्य भिन्नकालत्वात् 38a सोऽर्थः सहकारी कथमक्षचेतसो भवेदिति चेत् । (२४५)
असतः प्रागसामर्थ्यात् पश्चाच्चानुपयोगतः । प्राग्भावः सर्व्वहेतूनां नातोर्थः स्वधिया सह ॥ २४६॥
कार्योत्पत्तेः प्रागसतस्तत्रासामर्थ्यात् । सदधिष्ठानं हि सामर्थ्यमसतः कथं स्यात् । कार्योत्पत्तेः पश्चात् सतः कारणव्यापाराद्वा पश्चात् कार्यसमकालस्य सतो . वा तंत्रानुपयोगतो व्यापाराभावात् । कार्यात्प्राग्भावः सर्व्वहेतुनामिति स्थितं । विषयश्च ज्ञानानां नाकारणमतिप्रसङ्गात् । अतो विषयः कारणात्मकः स्वधिया स्वालम्बनधिया सह न भवति । पूर्व्वभावित्वे च विषयस्य तत्कालेन्द्रियज्ञानसहकारिता युक्तिमती । (२४६)
ननु (1)
3 भिन्नकालं कथं प्राह्यमिति चेद् ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥२४७॥
१९३
प्राग्भावभावित्वाद् भिन्नकाल वस्तु कथं ग्राह्यमिति चेत् । ज्ञानेऽकारस्य स्वानुरूपस्यार्पणक्षमं ग्राह्यतां युक्तिज्ञा विदुः ( 1 ) न हि संदशायोगोलयोरिव ज्ञानपदार्थयोर्ग्राह्यग्राहकभावः । कथन्तर्हि यदाकारमनुकरोति तत् ग्राह्यस्य ग्राहकमित्युच्यते । (२४७)
१
: नन ु यदि कारणं ग्राह्यं तदा समनन्तरप्रत्ययादिकं च तथा स्यात् । इत्याह (1) कुर्व्वदुदेति यत् । तत्तेनाप्यत्र तद्रूपं गृहीतमिति चोच्यते ॥ २४८ ॥
2.
कार्यं हि ज्ञानमनेकहेतुत्वेऽपि यत्कारणमाकारद्वारेणानुकुर्व्वदुदेति तत्कारणमपि तद्रूपमुपरोपितस्वाकारं तेन कारणाकारेण गृहीतमिति चोच्यते । यथा पितृरूपं पुत्रेण गृहीतमिति कथ्यते । उक्तं मानसं ॥ X X ॥ (२४८)
स्वसत्ताकालः ।
२५