________________
१९२
किञ्च (1)
प्र० वा० वृत्तौ (२ परिच्छेदः)
निष्पादितक्रिये किश्चिद् विशेषमसमाधत् । कर्म्मण्यैन्द्रियमन्यद् वा साधनं किमितीष्यते ॥ २४१॥
निष्पादिता क्रिया यस्मिन् तत्र कर्मणि विशेषं कञ्चिदसमादधत् ऐन्द्रियमिन्द्रियज्ञानमन्यद्वा परश्वादि साधनं किमितीष्यते (1) क्रियानिर्व्वर्तनं हि साधनव्यापारः । तच्चेन्निष्पन्नं किमन्यत् कुर्व्वत्तत् साधनं स्यात् । (२४१)
अपि च (1)
सद् भावश्च सर्व्वासां धियां तद्भावजन्मनाम् ।अन्यैरकार्यभेदस्य तदपेक्षाविरोधतः ॥२४२॥
तस्मात् स्थिराद् भावाज्जन्म यासान्तासां सर्व्वासां धियां सकृद् भावश्च स्यात् । न क्रमभावः । ऋमिसहकार्यपेक्षया क्रमेण स्थिरोप्यर्थः करोति बुद्धीरिति चेत् । अतोऽन्यैः सहकारिभिर' कार्यो भेदो विशेषो यस्य स्थिरैकरूपस्य तस्य तदपेक्षाया विरोषतः । (२४२)
यत एवं (1)
तस्मादिन्द्रियविज्ञानानन्तरप्रत्ययोद्भवः ।
मनोन्यमेव गृह्णाति विषयं नान्धदृक् ततः ॥२४३॥
तस्मादिन्द्रियविज्ञानमेवानन्तरप्रत्ययस्तस्मादुद्भवो यस्य तन्मनो मानसं प्रत्यक्षं । इन्द्रियप्रत्यक्षग्राह्य (i) द्विषयादन्यमेव विषयं गृह्णाति । तत इन्द्रियज्ञानजन्यत्वात् मानसस्यान्धानां चक्षुव्विज्ञानविकलानां दृग् दर्शनं रूपस्य न भवति । गृहीतग्राहित्वं च विषयान्तरग्रहणादपास्तं ( |२४३)
यद्यन्यविषयग्राहकं मानसं तदा भूतभविष्यद्ग्राहकमपि स्यादित्याह ( 1 ) स्वार्थान्वयार्थापेक्षैव हेतुरिन्द्रियजा मतिः ।
ततोन्यग्रहणेप्यस्य नियतग्राह्यता मता ॥ २४४॥
स्वार्थः स्वकीयो विषयस्तस्मादन्वय उत्पादो यस्यार्थस्य तदपेक्षेव इन्द्रियजामतिर्मनोविज्ञानस्य हेतुरिष्यते । ततोऽन्यस्य विषयस्य ग्रहणेपि मनोविज्ञानस्येष्यमाणे नियत इन्द्रियज्ञानग्राह्योपादेयक्षण एव ग्राह्यो यस्य तद्भावो नियतग्राह्यता सा मता । (२४४)
मानसादि ।
" अभिषर्मेऽस्ति मनोविज्ञानसमङ्गी तु.
नीलमिदमिति च मनो द्विधा । सविकल्पं निर्विकल्पञ्च तु तन्मानसं प्रत्यक्षं विमतिनिरासाय व्युत्पादितं ।