________________
मानसप्रत्ययाम्
दर्शनान्येव भिन्नान्यप्येकां कुर्वन्ति कल्पनाम् । प्रत्यभिज्ञानसंख्यातां स्वभावेनेति वर्णितम् ॥ २३८॥
दर्शनानीन्द्रियज्ञानान्येव भिन्नानि नानाक्षणविषयाण्यनेकान्यपि स्वभावेन प्रत्यभिज्ञानकारणस्वरूपेण स्वकारणप्रसूतेन कल्पनात्मकत्वाध्यवसायिनीं प्रत्यभिज्ञानसंख्यातां प्रत्यभिज्ञाननाम्ना प्रसिद्धां कुर्वन्तीति वर्णितं प्राक् ? ।
तस्मात्स्थितमेतत् प्रत्यक्षमनिर्देश्यत्वादविकल्प' मिति । उक्तमिन्द्रियप्रत्यक्षं ॥ _×× ॥ (२३८)
१९१.
(२) मानसप्रत्यक्षम्
मानसमाख्यातुमाह (1) तच्चेन्द्रियज्ञानानन्तरमिष्टं । तेन सहैकविषयं भिन्नविषयं वा स्यात् । उभयथापि तु दोष इत्याह (1)
पूर्व्वानुभूतग्रहणे मानसस्याप्रमाणता । अदृष्टप्रहणेन्धादेरपि स्यादर्थदर्शनम् ॥२३९॥
पूर्व्वानुभूतस्येन्द्रियज्ञानगृहीतस्य ग्रहणे मानसस्य स्वीक्रियमाणेऽप्रमाणता स्यात्। अज्ञाता(र्थं) प्रकाशस्य प्रमाणत्वात् । इन्द्रियज्ञानादृष्टस्य ग्रहणे पुनरिष्यमाणेऽन्धादेरपि स्यादर्थस्य रूपादेर्दर्शनं । ( २३९ )
इन्द्रियज्ञानानुभूतविषयत्वेपि द्वौ विकल्पौ सोऽर्थः क्षणिको न वा । क्षणिकत्वादतीतस्य दर्शने च न सम्भवः ।
वामक्षणिकत्वे स्याल्लक्षणं सविशेषणम् ॥ २४०॥
प्रथमपक्ष इन्द्रियज्ञानविषयस्यार्थस्य पूर्व्वकालस्य सहभुवो वा क्षणिकस्वावतीतस्य नष्टस्य मानसेन दर्शने दर्शनस्य च न सम्भवोस्ति । अक्षणिकत्वे वा अधिगतार्थाधिगन्तृत्वादप्रमाणं स्यात् । अथ मानसमधिगतार्थधिगन्तृप्रमाणमिष्यते तदपि मानसस्य सविशेषणं लक्षणं वाच्यं स्यात् । यथाधिगतविषयत्वेपि “कल्पनापोढमभ्रान्तं" मानसं प्रत्यक्षमिति ( । २४० )
' प्रथमपरिच्छेदे ।
सौत्रान्तिकस्य ।
३ “मानसञ्चार्थरागादि स्वसम्वित्तिरकल्पिका" [मालसमु १४६ ] "योगिनां गुरुनिर्देशाव्यतिभिन्नार्थमात्रवृद्धि” तिसवृत्ति व्याख्यातुं परोक्तदूषणं चतुःश्लोक्याह । वृत्तिर्मानसमपि रूपादिविषयमविकल्पक्रमनुभवाकाङ्गतमिति ।
8 वैशेषिकस्तुल्यं करामलवद्विषयविषयित्वमाह । " वैभाष्यस्य स ज्ञानविषयनिरोधः ।