________________
१९०
प्र० वा० वृत्तौ (२ परिच्छेदः)
भिन्नार्थानि शब्दरूपगन्धादिभिन्नविषयाणीति व्यपदिश्यते (1) तत्कुतः प्रमाणादवधारितं । तान्यपि चित्तान्यभिन्नविषयत्वेपीन्द्रियाणामाश्रयभूतानां भेदाद् भिन्नाकाराणीति किन्न कल्प्यते । (२३४)
किञ्च (1)
जातो नामाश्रयोन्योन्यः चेतसां तस्य वस्तुनः । एकस्यैव कुतो रूपं भिन्नाकारावभासि तत् ॥ २३५॥
सामान्यादिचेतसामाश्रयः कारणमिन्द्रियं शब्दश्चेति अन्योन्यो नाम जातः । तथा पि सामान्यादेर्व्वस्तुन एकस्यैव रूपं तत्कुतो भिन्नाकारावभासि स्फुटास्फुटावभासि स्फुटा' स्फुटप्रतिभासं । न हि स्वरूपेण भासमानमेकं भिन्नप्रतिभासं युक्तम् । (२३५)
यदप्युच्यते परैः (1) शाब्देन्द्रियज्ञानयोर्यदि नैकविषयत्वं तदा विषाणादिमन्तमर्थं गौरिति शब्दात्प्रतीत्य कालान्तरे व्यक्तिविशेषं दृष्टवतोऽयमसौ शब्दात् प्राङमया प्रतीतो गौरिति प्रत्यभिज्ञानमेकताध्यवसायि यदुत्पद्यते तन्न स्यादिति । तत्राह (1)
वृत्ते श्यापरामर्शेनाभिधानविकल्पयोः । दर्शनात् प्रत्यभिज्ञानं गवादीनां निवारितम् ॥२३६॥
अभिधानविकल्पयोव्रं श्यस्याध्यक्षविषयस्यापरामर्शेन विषयीकरणेन वृत्तेः " पश्चाद् दर्शनात् स एवायं शब्दनिर्दिष्टो गौरिति प्रत्य' भिज्ञानं गवादीनां यदिष्यते तन्निवारितं बोद्धव्यं । इन्द्रियशब्दज्ञानयोभिन्नाकारत्वेनैव विषयत्वाभावात् कथं तदेकताव्यवसायि वस्तुविषयं स्यात् । (२३६)
श्रन्वयाश्चानुमानं यदभिधानविकल्पयोः ।
दृश्ये गवादौ जात्यादेस्तदप्येतेन दूषितम् ॥ २३७॥
यच्च बुश्ये गवादावने कत्राभिन्नाकारयोरभिधानविकल्पयोरन्वयादनुवृत्तेर्जात्यादेरनुमानं परैरुच्यते तदप्येतेनाभिधानविकल्पयोर्दृश्यत्वापरामर्शेन हेतुना दूषितं बोद्धव्यं । न ह्यन्वयिनावपि शब्दविकल्पो वस्तु स्पृशतः । तत्कथं ताभ्यां वस्तुनः सामान्यस्य सिद्धिः । (२३७ )
यदि नास्ति सामान्यं तथा कथमस्तु प्रत्यभिज्ञाममित्याह ( 1 )
१ मिथ्यावत् ।
पूर्वापरकता इन्द्रियज्ञानोत्तर भावि ।