________________
.. इन्द्रियप्रत्यक्षम् (चित्रकत्वचिन्ता)
१८९ * सर्वतः' परस्माद्विनिवृत्तस्यार्थस्य यतो यतः परस्माद्विनिवृत्तस्तैर्भवावृत्तिभिरुनीता साऽनेकरूपता धर्मिधात्मकतया धर्मिणोऽर्थस्य । सर्वतो व्यावृत्ते प्रत्यक्षेण गृहीते वस्तुनि तद्व्यावृत्त्यनुकारिणो' विकल्पा(:)प्रत्यक्षदृष्टत्वेन धर्मिधर्मभावं व्यवस्थापयन्तीति प्रत्यक्षकृतः स उच्यते। न तु प्रत्यक्षप्रतिभासमानत्वात् । (२३१) तथा हि (1)
ते कल्पिता रूपभेदाद् निम्विकल्पस्य चेतसः।
न विचित्रस्य चित्राभाः कादाचित्कस्य गोचरः।।२३२॥ - ते धर्मिधर्मादयो रूपभेदाद् बुद्धयाकारविशेषा विजातीयव्यावृत्त्याश्रयेण कल्पिता विचित्राभा वस्तुबलभावित्वात का 'दाचित्कस्य विचित्रस्य धर्मिधर्मभेदप्रतिभासरहितस्य निम्विकल्पस्य चेतसः प्रत्यक्षस्य न गोचरः। प्रत्यक्षं हि वस्तुसामोत्पन्नं तदाकारमनुकुर्यात् न विकल्पितं । (२३२)
(ख) शब्दविकल्पविषयः सामान्यम् ___भवतु' वा वस्त्वेव सामान्यं तथापि नासौ शब्दविकल्पविषय इत्याह (1)
यद्यप्यस्ति सितत्वादि यागिन्द्रियगोचरः।
न सोभिधीयते शब्दैर्ज्ञानयो रूपभेदतः ॥२३३॥ यद्यपि सितत्वादि सामान्यमस्ति पटादौ धम्मिणि यादृक् सितत्वादिविशदा-- कार इन्द्रियस्य गोचरः। स इन्द्रियज्ञानगोचरोऽर्थोऽभिधीयते न शब्दैः । ज्ञानयोरिन्द्रियशब्दजनितयो रूपस्याकारस्य स्फुटास्फुटत्वेन भेवतः (२३३)
एकार्थत्वेपि बुद्धीनां नानाश्रयतया स चेत् ।।
श्रोत्रादिचित्तानीदानी भिन्नार्थानीति तत्कुतः ॥२३४॥ . बुद्धीमामिन्द्रियशब्दजनितानामेकार्थत्वे एकवि षयत्वेपि नानाथ यतया कारणभेदात्मकस्स आकारभेदश्चेत्। इदानीमेवं स्थितौ श्रोत्रादीन्द्रियचित्तानि
'स्वार्थे सामान्यगोचरं व्याख्याय [प्रमाण]समुच्चये।
"धर्मिणो नैकरूपस्य नेन्द्रियात् सर्वथा गतिः। स्वसम्वेद्यन्त्वनिर्देश्यं रूपमिन्द्रियगोचर" इति व्याचष्टे।
कादाचिकत्वादर्थसन्निधिसापेक्षत्वमाहान्यथा कल्पितधर्मभेदशेयत्वादिविषयत्वे सर्वदा स्यात्। एतेन सामान्यं वस्तुसत्प्रतिषिद्धं । 'सामान्यमात्र।
चलराविमनसी।