________________
इन्द्रियप्रत्यक्षम् (चित्रकत्वचिन्ता) १८७ सास्नादिमानिति वा यदा गृह्यते तदा तेनैवावयवेन सम्बन्धव्यवसायादितरावयवसम्बन्धानवसायात् संपूर्णाङ्गोऽवय' वी न गृह्येत । सकृद् मृह्यते च । नापि गुणाविमान् गृह्यत । विषाणी' गौरिति बुद्धया विषाणविशिष्टो गौविषयीकृतो न त्वन्ये गुणकर्मसामान्यादयः । ततश्च नीलादिरूपं मुणः परिस्पन्दादि च कर्म। वस्तुत्वादि च सामान्यं न गृह्येत। दृष्टविरुद्धञ्चतत्। (२२६) ..सर्वेषां गुणकर्मसामान्यावयवादीनां वस्तुतो विशेषणत्वात् सर्वग्रहणमिति चेत् । आह (1)
विवक्षा परतन्त्रत्वात् विशेषणविशेष्ययोः । - यदङ्गभावेनोपात्तन्तत्तेनैव हि गृह्यते ॥२२७॥
विशेषणविशेष्ययोविवक्षापरतन्त्रत्वात् पुरुषेच्छानुरोधात् न पारमार्थिकत्वं । तथा विषाणी गौरिति गोविषाणमित्यादौ विपर्ययो विशेषणविशेष्ययोः प्रयोक्तुरिच्छावशेन दृश्यते। तस्माद्यदेव ह्यङ्गभावेन विशेषणभावेन स्वमनीषिकया प्रतिपादयित्रोपात्तं तेनैव विशेषणेन विशिष्टं तद्विवक्षितं गृह्यते न तदितरैः। तेषामविवक्षितत्वेनाविवक्षितत्वात्। ततश्च न संपूर्णाङ्गो नापि गुणादिमान् गृह्येत । (२२७) • किञ्च (1)
स्वतो वस्त्वन्तराभेदाद् गुणादेर्भेदकस्य च । अग्रहादेकबुद्धिः स्यात् पश्यतोपि परापरम् ॥२२८॥
गुणादिभेदग्रहणान्नानात्वप्रतिपद्यदि। - अस्तु नाम तथाप्येषां भवेत् सम्बन्धिसंकरः ॥२२९॥
वस्तुनः स्वतो वस्त्वन्तराद् भेदाभावात् वदन्ति हि स्वतो हि म गौ गौग्र्गोत्वयोगात् गौः। तथा स्वतो हि शुक्लो नाशुक्ल: शुक्ल त्वयोपात् शुक्ल इत्यादि भेदकस्य च गुणा देरग्रहात् पदार्थः सह। ततश्च परापरमर्यजातं पश्यतोप्येकपदार्थत्वबुद्धिः स्यात् । न हि द्रव्याणामन्योन्यस्य भेदका गुण 'जात्यादयस्तैः सह गृह्यन्ते येन भेदबुद्धिः स्यात्। द्रव्ये गृहीते पश्चाद् गुणादीनां भेदानां विशेषाणां नानात्वग्रहणं द्रव्याणां यदीष्यते। अस्तु नाम पश्चाद् गुणादिग्रहणं । तथाप्येषां
न हि विवागेनान्येप्युपाषयोऽवच्छिचन्ते तेषां विशेष्यत्वप्रसङ्गात् ।
सकृदनेकार्थप्रतीतिप्रसङ्गात्। 'घटदर्शनेपि पटबोव एव चिनोपाधि पदार्थाग्रहात्। . दीर्घत्वादि। नाना सामान्यादीनि नकस्येति तहिनिदानां।