________________
१८६ ० था. वृत्ती (२परिच्छेदः)
परिवहवः परमाणब उपसर्पणप्रत्ययात् संजा' तातिशया विज्ञानजननयोग्याः संहता उत्पन्नाः स्वग्राहि कार्यञ्च बुद्धःकारणं भवेयुस्तदा को बिरोध इन्द्रिया'दिवत्। इन्द्रियादयः प्रत्ये क न बुद्धेर्हेतुर्मिलितास्तु भवन्ति तद्वदणवोपि स्युः। न हि परेषामिवास्माकञ्च नित्यैकस्वभावा अणवः। ते हि यथाप्रत्ययमतीन्द्रियाः सन्त ऐन्द्रिया अपि स्युः। (२२३) ननु हेतुत्वेपि कथमणवो ग्राह्या इत्याह (1)
हेतुभावादृते नान्या ग्राह्यता नाम काचन ॥ हेतुभावावृते बिना ग्राह्यता नाम या प्रसिद्धा सा नान्या काचित् । अपितु हेतुतैव ग्राह्यता।
एवन्तीन्द्रियादिकमपि हेतुत्वाद् प्राह्यं स्यादित्याह (1) ___-तत्र बुद्धिर्यदाकारा तस्यास्तद् प्राह्यमुच्यते ॥२२४॥ . .
तत्र तेषु हेतुषु बुद्धिर्यदाकारा भवति तस्या बुद्धस्तद् ग्राह्यमुच्यते अणुसञ्चयः सैव च बुद्धिराकारमनुकरोति नेन्द्रियादेः । (२२४) ।
कर्ष वाऽवयवी प्रायः सकृत् स्वावयवैः सह ।
न हि गोप्रत्ययो दृष्टः सास्नादीनामदर्शने ॥२२५॥ समय तग्राह्यं । योप्याह (1) नानेक सकृद् गृह्यत इति। तन्मतेऽवयवी स्वावयवैः सास्नाककुद्लागूलादिभिः सह कथम्या ग्राह्यो युक्तः। न गृह्यत एवेति चेत् । न हि गोरवयविनः प्रत्यय: सास्नादीनामवयबानामदर्शने क्वापि, वृष्टः । (२२५)
गुणप्रधानाधिगमः सहाव्यभिमतो यदि।
सम्पूणोंङ्गो न गृह्येत सकृन्नापि गुणादिमान् ॥२२६॥ यदि सहाप्यभिमतो गुणप्रधानयोविशेषणविशेष्ययोरधिगमो नोपाधीनामन्योन्यं विशेषणविशेष्यभूतानां द्रव्यानां (?णां) वा तादृशानां (?णां)। एवन्तर्हि विषाणी
• योग्यदेशत्वाव्यवहितत्वादिना। अत्मेन्द्रियार्थसन्निकर्षाद् वैशेषिकाः। इन्द्रियार्थसन्निकर्षानयायिकाः। पृथगर्यः।
परस्परमनुपाधिभूतानेकद्रव्यग्रहणं नण्यते न पुनर्गुणप्रधानभूतस्य। विशेपणभूताच सास्नादयोऽवयवा गोव्यस्येति सेवा सहमहो युक्तः। न त्वणूनामनेबत्वात् ।