________________
इन्द्रियप्रत्यक्षम् ( चित्रकत्वचिन्ता)
१८५
तमनुभूयमानात् पीतात् विवेचयन् भेदेन व्यवस्थापयन् प्रमाता अर्थ एव नीले पति विवेचकत्वेन । परोक्षं तदा नीलमर्थ एव । अपरोक्षतैव तु ज्ञानस्व• भावः । अतो यद् विविच्यते तदज्ञानं । यज्ज्ञानं तन्न विवेच्यत एव । ( २२० ).
तस्माद् (1)
फ्र यद् यथा भासते ज्ञानं तत्तथैव प्रकाशते ।
इति नामैकभावः स्याश्चित्राकारस्य चेतसि ॥ २२१ ॥
यज्ज्ञानं यथा नीलाद्यात्मतया जातं सत्तथा भासते प्रकाशते । भासमान स्वभावत्वात् ज्ञानं तथा तेनैव स्वरूपेणानुभूयते सर्वैः प्रतिपत्तृभिः । न चोत्पन्नस्यापि ज्ञानस्य स्वप्रकाशकस्याविदितः कश्चिदाकारोस्ति इत्यशक्यविवेचनत्वात् तुल्ययोगक्षेमत्वात् सहप्रतिभासनियमात् । चित्रस्य नीलपीताद्याकारस्य चेतसि बुद्धावेकभावो नाम भवेत्तदा को दोषः । (२२१)
पटादिरूपस्यैकत्वे तथा स्यादविवेकिता ।
ज्ञानवत् पटादिरूपस्य एकत्वेऽभ्युपगम्यमाने तथा ज्ञानस्येवाविवेकिताऽशक्यविवेचनत्वं स्यात् । न चास्ति (1) नीलादीनां ग्रहणाग्रहणभेदस्य दर्श-नात् ।
स्यादेतद् (1) अवयवां नीलाद्याः परस्परतोऽवयविनश्च भिन्नास्तेषां भेदाद्विवेकेन ग्रहणं । यस्त्वभिन्नोऽवयवी न तस्य विवेकेन ग्रहणमित्याह ( 1 )
. विवेकीनि निरस्यान्यदा विवेकि च नेक्षते ॥ २२२ ॥
बिबेकीनि नीलाद्यवयवरूपाणि निरस्य पृथक् कृत्वा अन्यदा विवेकिरूपञ्च नेक्षते । दृश्यसम्मतमनुपलभ्यमानं कथमभ्युपगमाहं । (२२२)
यच्चोच्यते परमाणवः प्रत्येकमतीन्द्रियत्वात् सञ्चिता अपि न ज्ञानगोचर इति तत्राह (1)
को वा विरोधो बहवः संजातातिशयाः पृथक् । भवेयुः कारणं बुद्धेर्यदि नात्मेन्द्रियादिवत् ॥२२३॥
.१ उत्तरज्ञानेन पूर्व्वकं ।
3 न ह्येवं बाह्यश्चित्रोर्थस्तथाहि ।
* अतीतत्वात् ।
B पिहितेष्वप्यवयवेषु निरवयत्वादवयवी वृश्यते । उद्योतकराद्यैः ।
२४
६ नाप्युदकाभ्याहरणं विनावयविनमिति भावः ।