________________
प्र० बा० वृतौ (२ परिच्छेदः)
असंविदिततस्त्वा च सा सर्व्वापरदर्शनैः ।
सा च विज्ञप्तिः सर्वैरपरदर्शनैरनुत्कृष्टदर्शनैरसम्बिदिता द्वयशून्यतातत्त्वं यस्याः साऽसंविदिततत्वा (1)
૩૮૪
कस्मादित्याह (1)
असंभवाद्विना तेषां प्राह्मग्राहकविलवैः || २१८॥
ग्राह्यग्राहकविप्लवैव्विना तेषामपरदर्शनानां विज्ञप्तेरसम्भवात् । ग्राह्यग्राहकोपप्लुतदर्शनत्वमेव चानुत्कृष्टदर्शनत्वं । (२१८)
पेक्षिततत्त्वायैः कृत्वा गजनिमीलनम् । केवलं लोकबुध्यैव बाह्यचिन्ता प्रतन्यते ॥२१९॥
तद् भ्रान्तदर्शनानुरोधादुपेक्षिततत्त्वार्यैरवधारिततदद्वयविवेकैर्भगवद्भिर्बुद्धे--र्गजनिमीलनं कृत्वा गजस्येव पार्श्वद्वयं पश्यतोपि नयननिमीलनकलया तत्त्वमपश्यन्तमिवात्मानं दर्शयद्भिर्लोकस्याविद्योपहतस्य बुद्धधा द्वयग्राहिण्या बाह्यस्य चिन्तास्कन्धायतनादित्वेन प्रतम्यते । स्कन्धादिदेशनया हि लोकबुद्धयनुरोधप्रवत्तितपाषण्डग्रा हनिवृत्ती मुख्यया येषु मुमुक्षवोऽवतार्यन्त इति देशनाक्रमः । (२१९ ) अथवा चित्रत्वेपि बाह्यमेकं न युक्तं बुद्धिस्तु चित्राप्येकैवेति दर्शयितु माह (1)
'नीलादिविश्रविज्ञाने ज्ञानोपाधिरनन्यभाक् ।।
अशक्यदर्शन: ;
नीलाविश्चित्रे ज्ञाने ज्ञानोपाधिरनुभवस्यात्मभूतः अनन्यभाक् आकारान्तरां - सहचरः" केवल इत्यर्थः। तादृशोऽशक्यदर्शनः सहैवाकारान्तरवेदननियमात्। न हि चित्रे विज्ञाने समुत्पन्ने नीलं निरस्य पीतं शक्यदर्शनं । तस्मादशक्यविवेचनत्वं तुल्ययोगक्षेमत्वं सहप्रतिभासनियतत्वं ज्ञानात्मनां नीलादीनामेकत्वं । बाह्यात्मनां तु नैतत्संभवति । एकं पिधायापि द्रष्टु मन्यस्य शक्यत्वात् ।
ननु ज्ञानाकारोपि नीलः पीतानुभवकाले यदा नानुभूयते तदा शक्यविवेचन एवेत्याह (1)
तं हि पतत्यर्थे विवेचयन् ॥ २२०॥
२ केवलं । " आत्मग्रह ।
'बुद्धावन्यैः । * प्रतिबिम्बवदाकाराः पारमार्थिकत्वेऽनेकान्तः स्यात् ।
तज्ज्ञानवत् ।
(
स नीलाविरेकैकं ।