________________
इन्द्रियप्रत्यक्षम् (चित्रकत्वचिन्ता)
१८३ लक्षणशून्यत्वानिःस्वभावत्वमपीत्याह (1)
न ग्राह्यग्राहकाकारबाह्यमस्ति च लक्षणम् ।
अतो लक्षणशून्यत्वाग्निःस्वभावाः प्रकाशिताः ॥२१५।। रूपादीनां ग्राह्यप्राहकाकाराभ्यां बाह्यं भिन्नं लक्षणं न चास्ति । तथा हि विषयतया किञ्चिनिर्दिश्यते। यथा रूप्यत इति कृत्वा रूपं। किञ्चिद्विषयितया विजानातीत्यादि' व्युत्पत्त्या 'यथा रूपिणः स्कन्धाः। न त्वेतद्व्यतिरिक्तं किञ्चिल्लक्षणमस्ति। अतो लक्षणेन ग्राह्यग्राहकत्वेन शून्यत्वानिःस्वभावाः सर्व्वधर्माः प्रकाशिता भगवद्भिर्बु द्धैः। (२१५)
किञ्च (1) बहिरर्थवादेपि लक्षणशून्यत्वात् निःस्वभावतां धर्माणामाख्यातुमाह (1)
व्यापारोपाधिकं सर्व स्कन्धादीनां विशेषतः ।
लक्षणं स च तत्त्वन्न तेनाप्येते विलक्षणाः ॥२१६॥ स्कन्ध आदिर्येषां धात्वायतनानां तेषां यल्लक्षणं राशीभवन्तीति राश्यर्थः स्कन्धानां (1) कार्योत्पादकत्वेनाकारार्थों धातूनां। आयन्तन्वन्तीत्यायद्वारार्थ आयतनानां" (1) तत्सर्व लक्षणं व्यापारोपाधिकं व्यापारविशेषणं । स च व्यापारो- 36a प्रतीतेर्भेदपक्षे न तत्त्वं । अभेदेपि प्रागभावी भाव एव स्यात्। स च तत्त्वं न भवति। "अशक्तं सर्वमिति चेदि” (२।४) त्यत्रोक्तकमात्। तेन व्यापारोपाधिकलक्षणायोगेनापि विलक्षणा निःस्वभावा एते स्कन्धादयः । (२१६) कथं तर्हि बाह्यस्कन्धादिदेशना भगवतामित्याह (1)
यथास्वंप्रत्ययापेक्षादविद्योपमुतात्मनाम् ।
विज्ञप्तिर्वितथाकारा जायते तिमिरादिवत् ॥२१॥ ___ अनाद्यविद्योपप्लुतात्मनामप्रहीणाक्लिष्टज्ञा नानां पुंसां यथास्वं यस्य भ्रमस्य य अत्मीयः प्रत्ययो यथास्वंप्रत्ययस्त स्यापेक्षणमपेक्षः। तस्माद्वितथौ ग्राह्यग्राहकाकारौ यस्याः सा तादृशी विज्ञप्तिर्जायते। तिमिरादिवत् तिमिरादाविव, वितथाकारचन्द्रद्वयादिविज्ञप्तिः। (२१७)
१ संजानातीति संज्ञा, अनुभवतीत्यनुभव इत्यादि । 'न तु. सम्वित्त्या। चित्तचत्तानामुत्पत्तिम्विस्तृण्वन्ति । ग्राह्यग्राहकाभिनिविष्टानां। बाह्यानपेक्षत्वे सदा स्यादित्याह। सन्तानपरिणाम उत्पत्तिनिमित्तं ।