________________
१८२ प्र० वा. वृत्तौ (२ परिच्छेदः) ३।३।२८ ९ तस्मानार्थेषु न झाने स्थूलामासस्तदात्मनः।
एकत्र प्रतिषिद्धत्वाद् बहुष्वपि न सम्भवः ॥२११॥ ___तस्मानार्थेषु बाह्येषु न जाने तद्ग्राहके स्थूलाभासः स्थूल आकारः संगच्छते। तदात्मनः स्थूलस्वरूपस्यकत्रावयवे परमाणौ वा प्रतिषिद्धत्वात्। बहुष्वपि तेषु सम्भवो नास्ति मिलिता अपि हि त एव। ते च प्रत्येकं स्थौल्यविकला इति समुदिता अपि तथैव स्युः । तथा नीलाद्याकारेषु प्रत्येकं चित्रस्य स्थौल्यस्याभावात् समुदायेप्यभावः । (२११).
ननु सुखाद्यात्मकं ३ स्वप्रकाशं विज्ञानमेकमिदमिति यो गाचा र मतमव्याहतमित्याह (1) - परिच्छेदोन्तरन्योऽयं भागो बहिरिव स्थितः।
ज्ञानस्याभेदिनौ भिन्नौ प्रतिभासो ग्रुपलवः ॥२१२॥ परिच्छेदो ग्राहकाकारः सुखादेरन्तरबहिर्देशे परिच्छेदादन्योयं भागो ग्राह्यो नीलाविहिःस्थित इवाभाति सर्वेषां। हिर्यस्मात् ज्ञानस्याविनौ भिन्नावाकारौ तरवसन युक्तौ (1) तस्मादन्तर्बहिर्देश सम्बन्धतया प्रतिभास उपप्लवो न. सत्यः। (२१२) ........
तत्रैकस्याप्यभावेन द्वयमप्यवहीयते।
तस्मात्तदेव तस्यापि तत्त्वं या द्वयशून्यता ॥२१३॥ तत्र एकज्ञानात्मनि विरुद्धं द्वयं न युक्तमित्येकस्य ग्राह्यत्वस्य ग्राहकत्वस्य वावश्याभ्युपगन्तव्येनाभावेन द्वयमप्यवहीयते। अन्योन्यसापेक्षयोरेकाभावेऽपराभावस्य न्यायप्राप्तत्वात् । तस्मात्तस्य ज्ञानस्यापि तत्त्वं तदेव या द्वयेन ग्राह्यग्राहकाकारेण शून्यता नाम। (२१३)
तभेदायिणी चेयं भावानां भेदसंस्थितिः।
तदुपसवभावे च तेषां भेदोप्युपमवः ॥२१४॥ इयं च भावानां रूपवेदनादीनां भेवसंस्थितिः(1) तस्य ग्राह्यग्राहकस्य भेदः स आधयो यस्याः सा तथा। तस्य ग्राह्यग्राहकभावस्य भेदव्यवस्थानिबन्धनस्योपप्लवमावे मिथ्यात्वे च तेषां रूपादीनां भेदोऽपि तद्व्यवस्थापित उपप्लवः । न केवलं रूपादीनां भेदाभेदावुपप्लवः। (२१४)
'एकानेकोमयरूपरहिता स्वसम्वित्तिरविरुदेव। , 'परमाणव एव न स्थूलाः स्वरूपहानेः। तत्वतो द्वयप्रतिभासि।