________________
इन्द्रियप्रत्यक्षम् (चित्रकत्वचिन्ता) १८१ चित्रं नानाकारोऽ'वभासो येषां पतङ्गादीनां तेष्वर्थेष्वेकत्वं न युज्यते। यदि सैव चित्रार्थग्राहिणी बुद्धिश्चित्रावभासिनी चित्रा'कारा कथमेका संमता। यथा चित्रत्वेपि बुद्धिरेका तथा कार्यद्रव्यञ्चैकं स्यात् । (२०८)
अत्राह (1)
म इदं वस्तुबलायातं यद् वदन्ति विपश्चितः। ___ इदं वस्तु 'नोऽव्यभिचारि लिङ्गस्य बलादायातं यद्व दन्ति विपश्चितो बुद्धा भगवन्तः । किं तदित्याह (1)
यथा यथार्थाःचिन्त्यन्ते विशीर्यन्ते तथा तथा ॥२०९॥ यथा यथा येन प्रकारेण एकत्वेनानेकत्वेन वार्था नीलादयो बाह्यज्ञानात्मानो वा विचिन्त्यन्ते तथा विशीर्यन्ते क्वचिदपि न व्यवतिष्ठन्त इति यावत् । न हि ज्ञानमेकं नानाकारत्वात्। तल्लक्षणत्वाच्च भेदस्य । ना प्यनेक चित्रप्रतिभासानुपपत्तेः। परस्परमवेदनात्। अन्यस्य च ग्राहकस्याभावात् । (२०९)
1 किं स्यात् सा चित्रतैकस्यां; ननु यदि सा चित्रता बुद्धावेकस्यां स्यात् तया च चित्रमे 'क द्रव्यं व्यवस्थाप्येत (1) तदा कि दूषणं स्यात् । आह (1)
न स्यात्तस्यां मतावपि । न केवलं द्रव्ये तस्यां मतावप्येकस्यां न स्याच्चित्रता। आकारनानात्वलक्षणत्वाद् भेदस्य । नानात्वेपि चित्रता कथम् (1) अनेकपुरुषप्रतीतिवत् ।
कथन्तर्हि प्रतीतिरित्याह (1) ____ यदीदं स्वयमर्थानां रोचते तत्र के वयम् ॥२१०॥ मर्थेभ्यो ।
यदीदमताद्रूप्येपि ताप्यप्रथनमर्थानां भासमानानां नीलादीनां स्वयमपरप्रेरणया रोचते । तत्र तथाप्रतिभासे के वयमसहमानाऽ(?अ)पि निषेद्धं । अवस्तु च प्रति भासते चेति व्यक्तमालीक्यं । (२१०)
परो दूषयति पूर्वोक्तं। 'परमुखेनोपन्यासो धर्मनैरात्म्यसूचनाय । तात्विकाकारवादिनोयं दोषो न ममेत्याह। ४धर्मनैरात्म्यं। "प्रष्टुः साध्य। 'अविद्यावशादुपलम्भः।