________________
- १८०
प्र० वा. वृत्तौ (२ परिच्छेवः) . अपि च' (1)
विजातीनामनारम्भादालेख्यादौ न चित्रधीः।
अरूपत्वान्न संयोगश्चित्रो भक्तेश्च नाश्रयः ॥२०५॥ विजातीनां भिन्नजातीनां रागद्रव्याणां कार्यद्रव्यानारम्भात् आलेल्यादौ चित्रधीन स्यात्। आलेख्यं संयोगस्तस्य चित्रं रूपमिति चेत् (1)न (1) संयोगोपि चित्रस्तस्यारूपत्वात् ।' संयोगो गुणस्तथा रूपञ्च । न च गुणे गुणान्तरमस्ति ।
स्यादेतत् (।) यथा तरुषु संख्यालक्षणं वनं कुसुमितत्वं चात एकार्थसमवा- ' यात् वने कुसुमितबुद्धिः । तथावयवेषु चित्रसंयोगयोः समवायाच्चित्रं चित्रमिति बुद्धिरुपचारादित्यादि भक्तरुपचारस्य च संयोग आश्रयो न युक्तः । (२०५)
प्रत्येकमविचित्रत्वाद् गृहीतेषु क्रमेण च ।
नचित्रधीसङ्कलनमनेकस्यैकयोऽग्रहात् ॥२०६॥ प्रत्येकमवय (व) नामविचित्रत्वात्। नीलादिषु क्रमेण स्वबुद्धिभिर्गृहीतेषु' बुद्धयन्तरेण चित्रसंकलनं संक्षिप्य ग्रहणञ्च न युक्तं। एकया धियाऽनेकस्यानहात् । (२०६).
नानाथैका भवेत्तस्मात् सिद्धातोप्यविकल्पिका । ----विकल्पयन्मायेकार्य यतोन्यदपि पश्यति ॥२०७॥
कथं नीलानामेकबुद्धमा संकलनं । इष्टौ वा तस्मात्संकलनस्वीकारादेवैका बुद्धिर्नानार्थानेकविषया भवेत् । अतोऽनेकार्थवेदनादपि बुद्धिरविकल्पिका सिद्धा। यतः शब्दयोजितमेकमयं विकल्पयन्नान्यदसंयोजितमर्थान्तरमपि पश्यति द्रष्टा । न ह्येकदानेकशब्दयोजना तस्मादर्थसञ्चयविषयत्वात् सामान्यविषयत्वं (1) तथापि त्वविकल्पिते तेन विरोधः। (२०७)
ख. चित्रैकत्वचिन्ता ननु (1)
चित्रावभासेष्वर्थेषु यद्येकत्वं न युज्यते । सैव तावत् कथं बुद्धिरेका चित्रावमासिनी ॥२०॥
एकोऽवयवी यदि ज्ञानजनको न नीलादयस्तदा। संयोगवावे रूपे व्यं स्यात्। पश्चात् । यदुक्त मेकायतमत्वेपि नानेकं दृश्यते सकृति"ति(२।१९७)तध्वस्तं स्यात्।