________________
इन्द्रियप्रत्यक्षम्
१७९ चित्रमनेकरूपं हि यस्मात्तस्मान्नैकं पतङ्गादि। यथैव संस्थानविशेषेण सन्नि' विष्टानां बहूनां मणीनां रूपं तच्चित्रमनेकं नैकमवयवि द्रव्यं विजातीयानां द्रव्यानारम्भात् । चित्रबुद्धिरेकत्वान्मुख्या पतङ्गे मणिरूपादिषु पुनरुपचरितेति चेत् । आह(1) नीलादिप्रतिभासश्चित्रप्रतिभासः स चित्रपट आविर्येषां मणिरूपादीनां तेषु चित्रपतङ्गे च तुल्यः । न त्वग्निमाणवकयोर्दहनबुद्धिरिव स्खलदस्खलद्वृत्तिलक्ष्यते। (२०१)
तत्रावयवरूपञ्चेत केवलं दृश्यते तथा।
नीलादीनि निरस्यान्यच्चित्रं चित्रं यदीतसे ॥२०२॥ तत्र चित्रपटादिषु केवलमवयवरूपं तथा चित्रतया दृश्यते नावयवी विजातीयानां द्रव्यानारम्भादिति चेत् । चित्रपतङ्गादावपि नीलादीनि निरस्य पृथक्कृत्य तेभ्योऽन्यच्चित्रमवयविरूपं यदीक्षसे त्वं तच्चित्रमाश्चर्य। स्वसिद्धान्तानुरागभेषजविशोधितचक्षुरीक्षसे त्वमेव यदीदृशमवयविनं परं नात्रान्येषामधिका रः। (२०२) अपि च (1)
तुल्यार्थाकारकालत्वेनोपलक्षितयोद्वयोः ।
नानार्था क्रमवत्येका किमेकार्थाक्रमापरा ॥२०३॥ तुल्या कारत्वेन तुल्यकालत्त्वेन चोपलक्षितयोः . कृत्रिमाकृत्रिमपतङ्गविशेषणयोर्द्वयोर्मध्ये एका कृत्रिमपतङ्गविषया धीर्नानार्था विजातीयात्मकद्रव्यानारम्भात् क्रमवती च नीलानां बहूनां क्रमेण ग्रहणात् । अपरा अकृत्रिमपतङ्गविषया एकार्थावयविविषया अत एवाक्रमा च किं कस्मादिष्यते। द्वयोरपि समानता युक्ता निमित्तस्य साम्यात् । (२०३) किञ्च।
वैश्वरूप्याद्धियामेव भावानां विश्वरूपता।
तच्चेदनङ्ग केनेयं सिद्धा भेदव्यवस्थितिः ॥२०४॥ - धियामेव वैश्वरू'प्यान्नानाकारत्वाद् भावानां ग्राह्यानां (? णां) विश्वरूपता व्यवस्थाप्यते। चित्रस्यावयविन' एकतास्वीकारे तद्बुद्धिषु प्रतिभासनानात्वं भेदव्य वस्थितावनङ्ग चेत् । तदा भावानां भेदव्यवस्थितिरपतूयेतैव। केनान्येन निबन्धेन सिद्धा भविष्यति । (२०४)
' द्रव्याणि द्रव्यान्तरमारभन्ते गुणा गुणान्तरमत्र तु नानारूपा मणयः। २ एकोत्रावयवी। अवयवास्तु विभिन्नाः दृश्यन्ते। ३ इति स्वभावानुपलम्भ उक्तः। अर्थाकारश्च कालश्च । सम्विनष्टत्वाद्विषयस्थितेः। चित्रपतङ्गे।