SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १७८ प्र० वा० वृत्तौ (२ परिच्छेदः) ग्रहणं ।' अत्रोच्यते । यदि नानेकमेकदा गृह्यते तदा तिलादिषु वियु क्तेषु विभिन्नदेशेषु सकृद्ग्रहावभासो युगपद् ग्रहणानुभवः किं कस्माद्धे तोः। (१९७) ज्ञानानां लघुवृत्तित्वात् सकृद् ग्रहणभ्रमश्चेत् । आह (1) प्रत्युक्तं लाघवश्चात्र तेष्वेव क्रमपातिषु । किं नाक्रमप्रहस्तुल्यकालाः सर्वाश्च बुद्धयः ॥१९८॥ प्रत्युक्तं प्रतिक्षिप्तं चात्र सकृद्ग्रहावभासे लाघवं बुद्धीनां । अन्यत्रापि समानं तद्वर्णयोर्खा सकृच्छ ति (२।१३५)रित्यादिना। तथाप्युच्यते। तेष्वेव तिलादिषु हस्तादिभ्यः क्रमपातिषु किं कस्मानाक्रमग्रहणं भवति। सर्वाश्च बुद्धयः सहावस्थितेषु सम्भवन्त्यस्तुल्यकालाः । (१९८) ततः (1) काश्चित्तास्वक्रमाभासाः क्रमवत्योपराश्च किम् । सर्वाथग्रहणे तस्मादक्रमोयं प्रसज्यते ॥१९९॥ तासु काश्चिदक्रमाभासायाः सहस्थितवस्तुविषयाया अपराश्च बुद्धयः 35a क्रमवत्योऽयुगपत्प्रतिभासाः किं भवन्ति याः क्रमपातिवस्तुविषयाः (1) अस्ति चायं भेदः । तस्मात्सर्वस्यार्थस्य ऋमिणोऽक्रमिणश्च ग्रहणेऽक्रमोऽयं लाघवाविशेषात्प्रसज्यते। (१९९) किञ्च (1) नैकं चित्रपतङ्गादि रूपं वा दृश्यते कथम् । चित्रं तदेकमिति चेदिदं चित्रतरन्ततः ॥२००॥ चित्रपतङ्गादि नैकमनेकं नीलादिरूपं वा दृश्यते कथं यदि नानेकमेकेन गृह्यते। चित्रं नीलपीताद्यात्मकं तत्पतङ्गादिकमेकमिति' चेत् इदञ्चित्रमेकं यदुच्यते तत्ततश्चित्रपतङ्गादपि चित्रतरमाश्चर्यतरं । चित्रमिति नानारूपाणि तदेव पुनरेकमुच्यत इत्युपहसति (१२००) तथा च (1) नैकं स्वभावं चित्रं हि मणिरूपं यथैव तत् । नीलादि प्रतिभासश्च तुल्यश्चित्रपटादिषु ।।२०१॥ 'येन सामान्यविषयत्वं स्यात् । माषमुद्गादेः संयोगस्य सहकारिणो नियुक्तत्वेऽभावानावयवी। 'युगपत्पञ्चज्ञानसाधने। क्षणिकत्वात्। सकृद्दर्शनमविरुद्धं ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy