________________
इन्द्रियप्रत्यक्षम्
१७७ सञ्चित इत्युच्यते । स एव च सामान्ये मतः तत्र च सामान्येऽअधीर्जायते (1) सामान्यबुद्धिश्चावश्यं विक ल्पेनानुबध्यते अनुसीव्यते । (१९४)
तत्कथमविकल्पं प्रत्यक्षमुच्यते ॥ अत्राह (1)
अर्थान्तराभिसम्बन्धाज्जायन्ते येऽणवोऽपरे। उत्पादा १५८.
उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मनः ॥१९५॥ अर्थान्तराणां परमाण्वन्तराणामभिसम्बन्धात् सन्निधानविशेषेणोपसर्पणप्रत्ययेभ्यः पूर्वकेभ्यः परमसन्निहितेभ्योऽपरेन्ये येऽण वो जायन्ते ते सञ्चिता उक्ताः सञ्चितालम्बना विज्ञानकाया इत्यादौ । ज्ञानजन्म नस्त एव हि निमित्तमुक्ताः तत्रानेकार्थजन्यत्वादित्यादिना। (१९५)
अणूनां स विशेषश्च नान्तरेणापरानणून् ।
तदेकानियमाज्ज्ञानमुक्तं सामान्यगोचरम् ॥१९६॥ अणूनां स च ज्ञानजननसामर्थ्यलक्षणो विशेषोऽपरानणूनव्यवधानवत्तिनो ऽन्तरेण विना न भवति । न हि प्रत्येकमणवो दृश्याः किं तु सहिता एव । तत्तस्मादेकस्मिन्नर्थे परमाणौ ज्ञानस्यानियमात् सामान्यगोचरं संचितपरमाणुसंघातविषयं ज्ञानमुक्तं तत्त्ववादिना। न तु परमाण्वतिरिक्तसामान्य विषयं । तत्कथं सामान्यविषयत्वात् सविकल्पत्वप्रसङ्गः ॥ (१९६)
अथैकायतनत्वेपि नानेकं दृश्यते सकृत् ।
सकृद्ग्रहावभासः किं वियुक्तेषु तिलादिषु ॥१९॥ अथैकेन्द्रियज्ञानजनकत्वात् नीलपीतादीनामेकायतनत्वे रूपायतनत्वसंग्रहेपि नानेकं नीलादि सकृद् दृश्यते किन्तु क्रमेण तत्कथमणूनां बहूनामेकदा
'सामान्यविषयाऽक्षधीः सविकल्पा परस्य ।
२ यदि रूपशब्दादिसमुदायालम्बना अपि पञ्च विज्ञानकायाः कथमेषां स्वलक्षणविषयत्वं न व्याहृतं कल्पनापोहत्वञ्च। पूर्वपक्षद्वये बौद्धः ।
" विज्ञानजननसमर्थस्वभावोत्पादनप्रत्ययसन्निधानात्। असमर्थेभ्यः।
समर्थाः प्रत्येकं । नान्यदेव सामान्यं। द्वितीयं परिहरति । 'सर्वेषां तत्साधारणं कार्यमित्यर्थः। न पुनरायतनसामान्यस्य ग्रहणात्।
न द्रव्यस्वलक्षणमिति व्याचष्टे। नियमेनानुत्पत्तेः। १०न विषयव्यपदेशि मनोज्ञानस्यापि विषयज्ञानत्वात् । “असाधारणहेतुत्त्वादस्तद् व्यपदिश्यते" इति दिग्नागः। अवयविद्रव्यमेकं जनकं न बहवः।
-..
२३