________________
१७४ ० वा. वृत्तो (२ परिच्छेदः) कादय इति चेत् । एवन्तर्हि तेन निविकल्पेन तुल्यहेतुकं चक्षूरूपमनस्काराविसमानहेतुकं विशेषविषयं सव्वं ज्ञानं तथैवाविकल्पकमस्तु (1) न तु स्वलक्षणविषयमपि किञ्चित्सविकल्पकं । हिर्यस्माखतो दात्फलात्मनां भेदो भवति। हेत्वभेदे तु फलामेद एव युक्तः। नान्यथा क्वचिदप्येकजातीयता स्यात्।' (१८१-८४) .. किञ्च (1)
अनपेक्षितबाह्यार्था योजना समयस्मृतेः। 1 तथानपेक्ष्य समयं वस्तुशक्त्यैव नेत्रधीः ॥१८५॥
योजना कल्पनाऽनपेक्षितबाह्यार्था बहिरर्थसंकेतविषयमनपेक्ष्य व समयस्य प्राग्गृहीतस्य स्मृतेः सकाशाद् भवति तावत्। तथा समयमनपेक्य वस्तुनः स्वलक्षणस्य शक्त्या स्वाकारानुकारिविज्ञानजननसामर्थ्येनैव नेत्रधीर्जायते यदि तदा को विरोधः। (१८५) स्यादेतद् (1)
संकेतस्मरणापेक्ष रूपं यद्यक्षचेतसि ।
अनपेक्ष्य न घेच्छक्त स्यात् स्मृतावेव लिङ्गवत् ॥१८६॥ . रूपमक्षचेतसि कर्तव्ये - संकेतस्मरणापेवं तदनपेक्षं पुनर्नाशक्तमिति एवं तहि श्रुतावेव रूपं शक्तमिति स्यात्। न त्विन्द्रियबुद्धो लिङ्गवत् । यथा हि लिंग न लिंगबुद्धौ साक्षाच्छक्तं किन्तु लिङ्गलिङ्गिनोः सम्बन्धिस्मृतावेव । तथा संकेतस्मरणे रूपं निमित्तं स्यात् । न चागृहीतं स्मृतिप्रतिबोधकमिति निविकल्पकमस्य ग्रहणं प्राक् ततः स्मृतिः। ततश्च योजनेति क्रमः । (१८६) कथं पुनरर्थसम्मुखीभावात् स्मृतिजन्मेत्याह (1)
तस्यास्तत्सङ्गमोत्पत्तेरक्षधीः स्यात् स्मृतेनं वा । - ततः कालान्तरेपि स्यात् कचिद् व्याक्षेपसम्भवात् ॥१८॥
तस्याः स्मृतेस्तस्यार्थस्य संगमेन सम्मुखीभावनोत्पत्तेः । न त्वक्षधोरर्थात्स्यात् । सा तु स्मृतेरर्थजनितायाः स्यात्। न वा स्मृतेरपि भवेत् स्मृत्यधीनतायां नार्थाधीनता। यच्च स्मरणं भावि तन्नावश्यं भवतीति कदाचिन्न भवेदपि। ततः स्मृतेः कालान्तरेणापि स्यादध्यक्षधीः स्मृत्यनन्तरं क्वचिद्विषयान्तरे व्याक्षेपस्याशक्तिलक्षणस्य संभवात् । तन्निवृत्तौ सत्यां क्रमेण भवेत्। (१८७)
प्रत्यक्ष कल्पनापोढमि" त्यादि "युवा कल्पना नास्ती त्यन्तः [प्रमाण] समुच्चयो ग्याल्यातः। शनार्ययोः। अर्थात्सव स्मृतिः स्यात्। 'इच्छावशात्।