________________
क. प्रत्यक्ष शब्दकल्पनानिरासः
सिद्धं । अनुमानात् ज्ञानसिद्धिवादिनः कस्यचिज्ज्ञानस्याध्यक्षासिद्धत्वात् अनुमानसिद्धावनवस्थानात् अपदृष्टान्तं । दृष्टान्तासिद्धौ न व्याप्तिसिद्धिरिति लिङ्गरहितमेवातीतं रूपादिदर्शनं । तत्तस्मात्केन प्रमाणेन सिद्धं तस्मिन् हि रूपादिदर्शने न प्रत्यक्षमभिमतत्वादस्ति । न च लैङ्गिकमनुमानमुक्तक्रमादिति सकलमप्रतिपत्तिकमन्धमूं' कं जगत्प्राप्तमिति । ( १८० )
अथ (1)
१७३
तत्स्वरूपावभासिन्या बुद्ध्यानन्तरया यदि । रूपादिरिव गृह्येत ;
तत्स्वरूपावभासिन्याऽतीतरूपादिबुद्धिरूपप्रतिभासिन्या
तज्जन्ययाऽनन्तया
धियाऽतीतबुद्धिर्यदि गृह्यते सौत्रान्ति क मते रूपादिरिव तदनुकारिण्या तदनन्तर या धिया तदा को दोष इत्याह ( 1 )
"
या चिरं बहुषु विषयेषु ज्ञानानि प्रवर्तन्ते तदा ( 1 ) न स्यात् तत्पूर्वग्रहः ॥ १८१॥ सोविकल्पः स्वविषयो विज्ञानानुभवो यथा । अशक्यसमयं तद्वदन्यदप्यविकल्पकम् ॥१८२॥ सामान्यवाचिनः शब्दास्तदेकार्था च कल्पना ।
भावे निर्विकल्पस्य विशेषाधिगमः कथम् ॥१८३॥ अस्ति चेत्रिर्विकल्पञ्च किञ्चित्तत्तुल्यहेतुकम् । सर्व तथैव तोहि भेदाद् भेदः फलात्मनाम् ||१८४|| तस्मादन्त्यात् ज्ञानात् या: पूर्व्वा धियस्तासां ग्रहो न स्यादिति दोषः । अन्त्यबुद्धिजनितया हि धिया सैव गृह्यते न त्वन्या इति स्यात् । अस्ति चानुभवस्तासां यद्बलेन चिरमहमद्राक्षमिति भवति द्रष्टुः । तस्मात्स्वविषयः स्वरूपालम्बनो विज्ञानानां पूर्व्वभाविनामनुभवोऽविकल्पः । स यथा तद्वदन्यदपि ज्ञानमन्त्यमप्रतिबद्धवृत्ति चाविकल्पकं बोद्धव्यं । यस्मात्सकलमेव स्वरूपमशक्यसमयं शब्दसंकेताविषयः। ततश्च न विकल्पग्राह्यं (1) किञ्च विशेषसंकेताभावात् व्यवहारकालानुयायित्वाच्च सामान्यवाचिनः शब्दास्तैः शब्दैरेकार्था एकविषया च कल्पना शब्दयोजनया शब्दार्थ एव कल्पना । परमते च निव्विकलपस्य ज्ञानस्याभावे विशेषस्य विकल्पाविषयस्याधिगमः कथं न कथञ्चि - 34a दित्यर्थः । विशेषानुभवदर्शनादस्ति किञ्चि निव्विकल्पं च ज्ञानं यथाहुर्मी मां स
१ प्रत्यक्षासिद्धया । वचनाभावात् अननुभूतेनाविकल्प्य वचनं । २ इन्द्रियज्ञानान्यसन्तानेन ।