________________
336
प्र० वा० बृत्तौ (२ परिच्छेदः)
सर्व्वविकल्पवादिनो मते रूपमिति प्रवृत्तविकल्पबुद्धी रूपमीक्षेत । तद्धियं रूपधियमपि कल्प्यमानां किमितीक्षते ज्ञाता रूपबुद्धयनुभवो नास्तीति न युक्तं । यस्मादस्ति चानुभवस्तस्याः सर्व्वेषां प्रतिपत्तॄणां । न च रूप इव तद्बुद्धावपि कल्पनाऽनुभूयते। ततश्च रूपबुद्धेरनुभवोऽविकल्पः कथम्भवेत् । (१७७) तयैवानुभवे दृष्टं न विकल्पद्वयं सकृत् ।
एतेन तुल्यकालान्यविज्ञानानुभवो गतः ॥ १७८॥
१७२
तयैव रूपबुद्धया रूपस्य स्वात्मनश्चाऽनुभवेभ्युपगम्यमाने रूपमिति रूपातुभव इति च विकल्पद्वयं सकृत् स्यात् । तच्च नास्त्य ' नुभवबाधितत्वात् । एतेन सकृत्क-ल्पनाद्वयनिषेधेन तुल्यकालेनान्येन निव्विकल्पज्ञानेनानुभवो रूपबुद्धेर्गतो निर्णीतोत्तरो बोद्धव्यः । (१७८)
ख. उत्तरकालभाविविकल्पज्ञानेनानुभवः
उत्तरकालभाविना विकल्पज्ञानेनानुभव इति चेदाह (1) स्मृतिर्भवेदतीते च साऽगृहीते कथं भवेत् । स्याच्चान्यधीपरिच्छेदाभिन्नरूपा स्वबुद्धिधीः ॥ १७९ ॥
अतीते च रूपानुभवे स्मृतिः पश्चात्तनेन विकल्पेन न भवेन्नानुभवः । सा 'स्मृतिरगृहीतेऽनुभव कथम्भवेत् । यदि चातीतबुद्धिव्विकल्प्यते तदाऽन्यस्य पुंसो धियः परिच्छेदेन परोक्षबुद्धिविकल्पात्मकेनाभिन्नरूपा तथात्वेन स्वबुद्धिधीः स्यात् । अस्ति च परबुद्धिप्रतीतिविलक्षणस्वबुद्धयनुभवः । तस्मादवि कल्प एवासौ । (१७९) किञ्च (1)
अतीतमपदृष्टान्तमलिङ्गञ्चार्थवेदनम् ।
सिद्ध ं तत्केन तस्मिन् हि न प्रत्यक्षं न लैङ्गिकम् ॥१८०॥ सविकल्पकप्रत्यक्षवादिना निव्विकल्पस्याप्यस्वसंवेदनवा दिनो मतेऽतीतमर्थवेदनं न केवलमध्यक्षतो वर्तमानविषयत्वान्न सिध्यति । किन्त्वनुमानादपि यस्मादलिङ्गं लिङ्गरहितं । तथा हि धर्मिणो ज्ञानस्यासिद्धत्वात् लिङ्गमाश्रया
१ निव्विकल्प एवैतद्युक्तं प्राक् रूपबुद्धिस्ततोस्याविकल्पो नात्र ।
* यदि रूपग्रहणे बुद्धेरननुभवस्तदोत्तरा स्मृतिनं स्यादस्ति च तवप्रत्यक्षत्वेत्वन्मतेन । ४ अनुपलब्धेः ।
प्रत्यक्षत्वाच्च ।
* इन्द्रियज्ञानकालेन विकल्पेन रूपबुद्धधनुभवो निरस्तः इति वृत्तिः ।
वैशेषिकस्य ।
हेतुः ।
a