________________
क. प्रत्यक्षे शब्बकल्पमानिरासः
१७१ - (६) क, प्रत्यक्षे शब्दकल्पनानिरासः । - तदेवं जात्यादिकल्पना तत्सम्बन्धकल्पना च नास्तीत्युक्तं। शब्दकल्पनापि न सम्भवतीत्याह (1)
संकेतस्मरणोपायं दृष्टसंकलनात्मकम् ।
पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम् ॥१७४॥ शब्दकल्पनं हि पूर्वगृहीतस्य संकेतस्य स्मरणमुपायो यस्य संकेतस्मरणोपायं वाचकत्वेन दृष्टस्य शब्दस्य संकलनं तथायोजन'मात्मा यस्य तत् दृष्टसंकलनात्मकं प्रसिद्धं । तच्च पूर्वस्य संकेतकालदृष्टवाचकशब्दस्यापरस्य दृश्यमानार्थस्य पराममों वाच्यवाचकतायोजनन्तेन शून्या शब्दामिश्रवस्तुस्वरूपग्राहिणि चाक्षुषे जाने कार्य संभाव्यते। चाक्षुषं चाक्षजमात्रोपलक्षणमिन्द्रियज्ञानमित्यर्थः। (१७४) किञ्च (1)
अन्यत्र गतचित्तोपि चक्षुषा रूपमीक्षते।
तत्संकेताप्रहसत्र स्पष्टस्तज्जा च कल्पना ॥१७५॥ . दृश्यमानादर्थादन्यत्रातीतादौ विकल्पनीये गतचित्तः प्रवृत्तविकल्पोपि द्रष्टा. बाबा चक्षुर्विज्ञानेन रूपमीलते। तस्य दृश्यमानार्थस्य संकेतः संकेतविषयो वाचकं नाम तस्याग्रहोऽस्मरणं तत्र चाक्षुषे ज्ञाने स्पष्टः। ततस्तज्जा वाचकनामस्मरणप्रभवा कल्पना व चाक्षुषे ज्ञाने नास्तीति शेषः। (१७५) किञ्च (1)
जायन्ते कल्पनास्तत्र यत्र शब्दो निवेशितः ।
तेनेच्छातःप्रवर्तेरन् नेक्षेरन् वाघमक्षजाः ॥१७६॥ तत्र विषये शब्दयोजनात्मिकाः कल्पना जायन्ते। यत्र संकेतकाले शब्दो • निवेशितः। न चेन्द्रिय विषये शब्दसंकेत इति न तत् ज्ञानं शब्दयोजनात्मकं (प्राक्) । अथेन्द्रियविषय एव शब्दनिवेशस्तदा तेन शब्दविषयत्वेन कारणेमेच्छातः प्रवर्तेरनक्षजाः प्रत्यया विकल्पवत्। न चैतदस्ति। इच्छाप्रभवत्वे वा बाह्यार्थसंनिधानानपेक्षत्वात्। बाह्यमर्थ नेक्षेरनक्षजाः प्रत्ययविकल्पवत्। (१७६) अपि च (1)
. रूपं रूपमितीक्षेत तद्धियं किमितीक्षते । । अस्ति चानुभवस्तस्याः सोविकल्पः कथं भवेत् ॥१७७॥ .
'वर्तमानार्थेन ।