________________
प्र० वा० वृतौ (२ परिच्छेदः)
इममन्यापोहमर्थांशं शब्दा अतत्प्रतिभासित्वेपि अनुयान्ति वृत्तिविषयत्वेन व्यवस्थापयन्ति। अर्थदर्शनायातत्वेन परस्परं या तत्प्रतिबन्धनादिति चान्यापोहकृच्छ्रुतिरुक्ता । (१७०)
१७०
तस्मात् संकेतकालेपि ;
33a
यस्माद् व्यवहारकालेऽन्यव्यवच्छेदप्रतीतिः शब्दात् तस्मात्संकेतकालेप्यन्यापोहः श्रुतौ वाच्यतया सम्बध्यते नान्यत् ।
नन्वर्थमुपदर्श्य संकेतः क्रियते तत्कथमपोह उच्यत इत्याह ( 1 )
निर्दिष्टार्थेन संयुतः ।
स्वप्रतीतिफलेनान्यापोहः संबध्यते श्रुतौ ॥ १७१ ॥
निर्दिष्टेनार्थेनान्यव्यावृत्तेन व्यवहारकाले स्वस्य प्रतीतिः फलं प्रयोजनं यस्य तेन संयुतोऽभेदाध्यवसायादेकत्वमुपनीतोऽन्यापोहो बुद्धयाकारस्वभावः श्रुतौ सम्बते न स्वर्थ एव । ( १७१)
तथा हि (1)
अन्यत्रादृष्टयपेक्षत्वात् कचित्तद्दृष्टयपेक्षणात् । श्रुतौ संबध्यतेपोहो नैतद् वस्तुनि युज्यते ॥ १७२ ॥
संकेतस्यान्यत्र व्यवच्छेद्येऽवृक्षेऽवर्शनापेक्षत्वात् । क्वचिदव्य' वच्छेद्ये वृक्षैकदेशे वृष्टयपेक्षणात् श्रुतावपोहः सम्बध्यत इति निश्चीयते । वस्तुनि सामान्यादौ संकेतविषये एतत् व्यवच्छेद्याव्यवच्छेद्ययोर्दर्शनादर्शनापेक्षणं न युज्यते । वस्तुनि विधिमुखेन प्रतिपाद्ये किमन्यत्रादर्शनापेक्षया । अपेक्ष्यते च ततोऽन्यव्यवच्छेद एव प्रतिपाद्यत इति गम्यते। अन्यव्यवच्छेदः सामान्यादिकं चापेक्ष्यते विपक्षपरिहारेण प्रतिपत्त्यर्थमिति चेत्।' अलं तदा' सामान्येन । अन्यव्यवच्छेदेनैव व्यवहारपरिसमाप्तेः । (१७२) यतश्च जातिगुणक्रियादीनि विशेषणानि वस्तुग्राहिणि ज्ञाने नाभासन्ते ( 1 ) तस्माद् जात्यादितद्योगा नार्थे तेषु च न श्रुतिः । संयोज्यतेन्यव्यावृत्तौ शब्दानामेव योजनात् ॥१७३॥ तस्माज्जात्यादयस्तेषां योगाश्चार्थे न सन्ति । अतस्तेषु श्रुतिश्च नोपयुज्यते । अन्यव्यावृत्तावेव प्रतीतिसिद्धायां शब्दानां योजनात्। ( १७३)
:
* नैतेषु विषये प्रवर्तयेयुरिति ( विग्) नागेन । • विधिमुखेन सामान्यनिमित्तशब्दप्रवृत्तौ दोषमाह । कल्पनानुविद्धार्थग्रहणं ।
सम्बन्धाः ।
५
३
तथा हि सामान्ये । इंन्द्रियविषये ।