________________
१६८
बिम्बानां बाह्य' व्यावृत्तात्मत्वेन
व्यवहारविषयत्वादन्यापोहनिष्ठत्वात्कारणावक्ता श्रुतिरन्यापोहकृत् । अन्यव्यावृत्ताकारविकल्पजननात् अन्यव्यावृत्तेषु प्रव ैर्तनाच्च शब्दोऽन्यापोहकृदुक्तः । ( १६४ )
ननु शाब्दे ज्ञाने ग्राह्यं बाह्यतयैव प्रतीयते न ज्ञानाकारतयेत्याह (1)
व्यतिरेकीव यज्ज्ञाने भात्यर्थप्रतिबिम्बकम् । शब्दात्तदपि नार्थात्मा भ्रान्तिः सा वासनोद्भवा ॥१६५॥
प्र० वा० वृत्तौ (२ परिच्छेदः)
शब्दादुत्पन्नज्ञानेऽर्थप्रतिबिम्बकं व्यतिरेकीव भिन्नं बाह्यमिव यदाभाति तदपि नार्यात्मा बहिरर्थस्वरूपं किन्तु भ्रान्तिः सा वासना निर्मिता । यथा तैमिरिकदृष्टेषु केशादिषु बाह्यभ्रमः । एवं विकल्पाकारेपि बाह्यव्यवहारोऽविद्यावश - दित्यर्थः । (१६५)
ज्ञाना" कारस्तर्हि वस्तुभूतो वाच्यः स्यादित्याह ( 1 )
तस्य ज्ञानाकारस्य श्रुतिभिरभिधानेऽर्थे तत्कार्यव्यावृत्ते शब्देनाचोदिते कोशोवगम्यते न कश्चित्तदकार्यव्यावृत्तस्यार्थस्य शब्दादगतौ च सत्यां संकेतक्रिया व्यर्था यस्मात्तदर्थका अतत्कार्यव्यावृत्तार्थप्रतीतिफला से ष्यते । ( १६६ )
एवन्तर्ह्यन्यापोहेपि संकेते कृते प्रवृत्तिरर्थेषु न स्यात् । तस्यार्थात्मत्वाभावादित्याह ।
१
तस्याभिधाने श्रुतिभिरर्थे कोंशोवगम्यते । तस्यागतौ च संकेतक्रिया व्यर्था तदर्थिका ॥१६६॥
३
५
शब्दोऽर्थांशकमाहेति प्रश्ने तत्रान्यापोहोऽतत्कार्यव्यावृत्तिः सर्व्वविशेषसंभविनी वाच्यतयोच्यते । अतोऽर्थाशात्मन्यन्यापोहे गृहीतसंकेतः शब्दादुच्चरितार्थं प्रतीत्य तत्र प्रवर्तत इति युक्तं । यस्तत्राक्षाकारः स चार्थे मास्ति तं बुद्ध्याकारं वदन् शब्दोऽर्थभाक् बाह्यार्थाभिधायी कथमस्तु । ( १६७)
फ्र
शब्दार्थांशकमाहेति तत्रान्यापोह उच्यते ।
आकारः स च नार्थेस्ति तं वदन्नर्थभाक् कथम् ||१६७||
२ वस्तुविवेकनिष्ठत्वात् ।
8 स्वलक्षणानुभववासनाहेतु ।
कुत इत्याह ।
अत्राह सिद्धान्ती ।
'दृश्यविकल्पयोरेकीकरणात् ।
सावतारः श्लोकः पूर्व्वपक्षः ।
8
• बाह्यनीलादिदर्शनाभ्यासायातो ज्ञानीयः ।