________________
१६७
अन्यापोहचिन्ता बस्वधर्मतया प्रकृत्यैव केचिदर्याः परस्परं भेदेपि तादशस्यानुगामिनोऽतत्कार्यव्यावृत्तिविषयस्य विज्ञानस्य कारणं । यत्र येष्वर्थेष्वनुगामि ज्ञानं तानभेदिनो:ऽर्थान् तथा एकत्वेन प्रतिपद्यते न त्वेकसामान्यं (?न्य-) बलात्तथा ज्ञानं । (१६१) स्यादेतत् । प्रतिव्यक्ति ज्ञानान्यपि भिन्नानीति कथमनुगामि ज्ञानमित्याह (1)
ज्ञानान्यपि तथा भेदेऽभेदप्रत्यवमर्शने।
इत्यतत्कार्यविश्लेषस्यान्वयो नैकवस्तुनः ॥१६२॥ ज्ञानान्यपि परस्परतो भेदे तथार्थवद्वस्तधर्मितयाऽभेदप्रत्यवमर्शने निमित्तं ततो ज्ञानान्यपि तदेकपरामर्शगोचरतयाऽनुगामिप्रत्यय उच्यन्ते इत्यनेन प्रकारेण भेदिष्वर्षेष्वतत्कादिर्घस्य विश्लेषो व्यवच्छेदस्तस्यान्वयो विद्यते । न त्वेकस्य 32b वस्तुनः सामान्यस्य (३१६२) . . .. वस्तूनां विद्यते तस्मात्तनिष्ठा वस्तुनि श्रुतिः ।
वस्तूनां विशेषाणामन्वयो विवतेऽनुपलम्भबाधितत्वात्तस्य । तस्मात् तनिष्ठा व्यावृत्तिविषया वस्तुनि श्रुतिः प्रवर्तते।
(५) भन्यापोहचिन्ता -
क. अतत्कार्यव्यावृत्तिः नन्वतत्कार्यव्यावृत्तिर्वस्तुनः स्वभावभूता ततो व्यावृत्तिविषयत्वे वस्तुविषयतेव समास्यं स्यादित्याह' (1) ..... बाह्यशक्तिव्यवच्छेदनिष्ठाभावेपि तच्छुतिः ॥१६३॥
बाह्यस्य वस्तुनः शक्तेरतत्कार्याद्यो व्यवच्छेदस्तत्र निष्ठा विषयित्वं तस्याभावपि तच्छृतिर्व्यवच्छेदवाचिनी श्रुति:। (१६३) .
विकल्पप्रतिबिम्बेषु तनिष्ठेषु निबध्यते ।
ततोन्यापोहनिष्ठत्वादुक्तान्यापोहकृच्छुतिः ॥१६४॥ विकल्पानां प्रतिबिम्बेष्वाकारेषु तनिष्ठेषु तद्व्यावृत्तिवस्तुत्वेन' व्यवस्थाविषयतया तद्व्यवहारव्यवस्थितिषु संके तकाले निबध्यते। ततो विकल्पप्रति
१ वस्तुष। न च शब्दो वस्तुस्पर्शीत्यनेनास्य विरोधं मन्यते। ३ कथमिति न वृत्तेन सम्बन्धनीयः। स्वलक्षणविकल्पविषययोरैक्यभ्रान्त्या।