________________
१६२
किञ्च (1)
प्र० वा० वृत्तौ (२ परिच्छेदः)
समवायस्यातीन्द्रियत्वादसिद्धिः
ख.
समषायाग्रहादक्षैः सम्बन्धादर्शनं स्थितम् ।
समवा'यस्यातीन्द्रियस्याग्रहावरक्षभवैव्विज्ञानैर्जातितद्वतोः सम्बन्धस्या'विशिष्टप्रतीत्याऽदर्शनं स्थितं निश्चितं यद्बलेन यत्प्रतीतिस्तदग्रहे न युक्ता सा । यदि नास्ति समवायस्तदेह तन्तुषु पट इत्यादयो बुद्धयो न स्युरित्याह (1) पटस्तन्तुष्विहेत्यादिशब्दाश्चेमे स्वयं कृताः ॥१४९॥
तथा " हि (1)
31b
इह सन्तुषु पट इत्यादि शब्दा:' इमे स्वयं समयानुलोचनैः कृता न वस्तुपराघीनाः । ( १४९ )
शृङ्गं गवीति लोके स्यात् शृङ्गे गौरित्यलौकिकम् ।
शृङ्गं गवि तिष्टतीति लोके स्यात् प्रमाणप्रसिद्धघोरनुरोधात् । शृङ्गे गौरिति तु तदुपकल्पितमलौकिकं प्रमाणप्रसिद्धिबहिर्भावात् ।
(३) अव्यविनिरासः
यद्यैबमवेभ्यो न गौभिन्नस्तदा गवि शृङ्गमित्यपि न स्यादित्याह " ( 1 ) गवाख्यपरिशिष्टाङ्गविच्छेदानुपलम्भनात् ॥ १५०॥
शृङ्गस्य गवाख्यैः परिशिष्टाङ्गेम्बिच्छेवेस्य वियोगस्यानुपलम्भनात् शृङ्गं गवीत्युच्यते न त्ववयवातिरिक्तगोसद्भावात् । (१५० )
ननु तन्तुषु पट' इति भवत्येव प्रतीतिरिति चेत् । आह (1) तैस्तन्तुभिरियं शाटीत्युत्तरं कार्यमुच्यते । तन्तुसंस्कारसम्भूतं नैककालं कथञ्चन ॥१५९॥
तन्तूनां
तैस्तन्तुभिः पटावस्थाप्राग्भाविभिरियं शाटीति कारणभूततन्तूत्तरकालभाविसंस्कारस्तुरीवेमकुविन्दकरादिसहकारी प्रभवावस्थाविशेषलाभः । तस्मात्स्वरसेन निरुध्यमानात्संभूतकार्यमुच्यते । न तु तन्तुभिः सहैककालं कार्यं
इह बुद्धिनिबन्धनोनुमेय इष्टः । समवायास्तित्वमाह । "नापि लौकिका इत्याह । अतीन्द्रियत्वान्न समवायादयं व्यपदेशः किन्तु ।
★ सम्बन्धाग्रहे तद्विशिष्टाग्रहात् ।
'सास्नाजैः ।