SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरासः तन्तुपट इति कथञ्चन कथ्यते कार्यकारणयोः सम कालत्वाभावात् (११५१) - यदि नास्ति तन्तुपटयोर्भेदस्तदा कथमे ते तन्तवः पटश्चायमिति व्यपदेश इत्याह (1) कारणरोपतः कश्चित् एकापोद्धारतोपि वा। . तन्त्वाख्यां वर्तयेत् कार्ये दर्शयन् नाश्रयं श्रुतेः ॥१५२॥ कारणानान्तन्तूनामारोपतः। एकस्य तन्तोरपोद्धारतो बुद्धया निःकर्षणात् वा कश्चिद् व्यवहा कार्ये पटे तन्त्वाल्यां तन्तुश्रुति वर्तयेत्। पटश्रुतेराश्रयं कारणं दर्शयेन् न तन्तुभ्यो व्यतिरिक्तः पटोस्ति एवमाकारपरिणतास्तन्तवः पट इत्यर्थः । (१५२) यदि तन्तवः केवला न तेभ्यः पटोऽन्यस्तदा पटव्यपदेशो निनिबन्धनः स्यादित्याह (1). .. .. उपकार्योपकारित्वं विच्छेदाद् दृष्टिरेव वा। तन्तूनां परस्परं शीताद्यपनोदक्षम साहित्यमुपकार्योपकारित्वं । अन्योन्यस्य . विच्छेदा दृष्टिरेव वा पटव्यपदेशनिबन्धनमिति शेषः। - यदि व्यतिरिक्तं व्यपदेशनिबन्धनं नास्ति तदा पट इति व्यपदेशो न मुख्यः स्यात्। बाही के गोव्यपदेशवदित्याह (1) मुख्यं यदस्खलज्ज्ञानमादिसंकेतगोचरः ॥१५३॥ - मुख्पन्तदुच्यते यादिसंकेतस्य गोचरो न व्यतिरिक्त इत्येव परस्पराविच्छेदा-- वस्थेषु च पटश्रुतेः संकेतावस्खलद्गतिगोचरत्वान्मुख्यत्वं । तस्मात्प्रत्यक्षतो जातेरनुपलम्भायोजनाविरहः। (१५३) (४) नानुमानतः सामान्यसिद्धिः स्यादेतत् (1) विशिष्टप्रतीतिविशेषणप्रतीतिपूविका यथा दण्डिप्रतीतिः। विशिष्टप्रतीतिश्च शावलेयादिषु गौरिति विशेषणञ्च शावलेयादिषु गोत्वमेवेत्यनुमानतो जातिसिद्धिरित्याह (1) 'समवायस्तु समकालयोरेव। न समवायः। यथा सास्नादिमान् गौः।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy