________________
सामान्यनिरासः _ यथा दण्डिनि जात्यादेविवेकेनानिरूपणात् ।
तद्वता योजना नास्ति कल्पनाप्यत्र नास्त्यतः ॥१४॥ यथा दण्डिनि दण्डीति विशिष्टबुद्धिः दण्डपुरुषतत्सम्बन्धादिग्रहणपूविका तदग्रहे च न भवति। जातिरादिर्यस्य गुणकर्मादेः स्वरूपस्य जात्या दिमतो विवेकेनानिरूपणात् तद्वता जातिमता योजना विशेषणविशेष्यभावो नास्ति। अतो योजनाविरहात् अत्र जातिमदादौ कल्पनापि नास्तीति तस्माज्जात्यादियोजनात्मिका कल्पना नास्ति शब्दयोजतात्मिका तु सम्भाव्येत। सापि स्वलक्षणे संकेताभावान्निर स्ता प्राक् । (१४६)
ननु यदि सामान्याभावस्तदा विभिन्नासु व्यक्तिषु कथमन्वयिप्रत्यय इत्याह (1)
यदप्यन्वयिविज्ञानं शब्दव्यक्त्यवभासि तत् । - यदप्यन्वयिविज्ञानमुत्पद्यते, तच्च शब्दस्य गौरित्यादेर्व्यक्तेश्च वर्णसंस्थानविशेषस्य आभास आकारस्तद्वत्प्रतीयते न जात्याभासवत्। • किं पुनः सामान्याभासमेव नेत्याह (1)
. वर्णाकृत्यक्षराकारशून्यं गोत्वं हि वरयंते ॥१४॥ वर्णों नीलादिराकृतिः संस्थानमक्षरं गवादिशब्दः। तेषामाकारो यथा . प्रतीतः तेन शून्यं गोत्वं हि सामान्यवादिभिर्वर्ण्यते (१४७)
'. अतोऽन्वयिविज्ञाने यद्वर्णसंस्थानादिप्रतिभासते न तत्सामान्यं (1) .. समानत्वेपि तस्यैव नेक्षणं नेत्रगोचरे।
प्रतिभासद्वयाभावात् बुद्धर्भेदश्च दुर्लभः॥१४८॥ तस्यैव समानत्वे वा स्वीक्रियमाणे नेत्रगोचरेऽर्थे नाङ्गीकर्तव्यमीक्षणं । [विकल्पप्रतिभासिनः] प्रतिभासद्वयस्य स्फुटास्फुटवर्णसंस्थानवतोऽभावात् । एकाकारमेव ज्ञानं यद्युभयाभासमङ्गीक्रियते तदा बुद्धे (में)दः प्रत्यक्षत्वाप्रत्यक्षत्वादिना दुर्लभः। यदपि स्पष्टप्रतिभासमध्यक्षं तदप्यनक्षजं स्यात् । अस्पष्टप्रतिभासत्वात् । एवमनक्षजमध्यक्षं स्यात्। स्पष्टप्रतिभासत्वात् । तस्माददृष्टेन सामान्यादिना न योजयतीत्यकल्पनमध्यक्ष (११४८)
.' इयं जातिरयं जातिमानित्यादिविवेकेन न भाति यतो योजना स्यात् बडिवत् ततो न जात्यादयः सन्ति।
२१