________________
१६०
प्र० वा. वृत्ती (२ परिच्छेदः) जन्मान्तरागतं व्युत्पन्न संकेतं मनोस्ति बालानां तेन संकेतः तेषां मतश्चेत् । एवं सतीन्द्रियजेपि ज्ञाने स्यात् कल्पना तन्निवर्तकहेत्वभिधानात् ततो' दृष्टासिद्धिरेव। इसमिन्द्रियजत्वादि ईवृशं निषेध्येन सहासिद्ध विरोधं। शेषवच्चोक्तं । (१४३) .' अथान्येन लिङ्गेनाव्यभिचारिणा बालज्ञानमविकल्पनं प्रसाध्य दृष्टान्तीक्रियते तदा (1)
यदेव साधनं बाले तदेवात्रापि कथ्यताम् ।
सौम्यादक्षधियामुक्तमनेनानुभवादिकम् ॥१४४॥ .. मदेवाव्यभिचारि बाले बालस्येन्द्रियज्ञाने साधनं तदेवात्र व्युत्पन्नसंकेतानामिन्द्रियज्ञानेपि कथ्यतां किमिन्द्रिजत्वादिनोपन्यस्तेन। व्युत्पन्नाव्युत्पन्नयोरक्षपिया शब्दसंसृष्टत्वमात्रानुकरणेन साम्यात् । अनेनेन्द्रियजत्वदूषणेनानुभव आदियस्य मानसस्वादेस्तदुक्तं दोषवत्तया बोद्धव्यं । (१४४)
.(२) सामान्यनिरासः
क. वर्णसंस्थानराहित्यादसिद्धिः अविकल्पसिद्धौ पर मतं दूषयित्वा स्वयं उपपत्त्यन्तरमाह (i) .
१ विशेषणं विशेष्यञ्च सम्बन्धं लौकिकी स्थितिम्। ____ गृहीत्वा सङ्कलय्यैतत् तथा प्रत्येति नान्यथा ॥१४५॥
विशेषण व्यवच्छेदकं विशेष्यं व्यवच्छेद्यं तयोः सम्बन्धं यथासम्भवं समवायादिकं लौकिकी लोकप्रसिद्धां स्थिति व्यवस्थाञ्च जात्यादिकं विशेषणं विशेष्यं द्रष्यादि विशेषणविशेष्यशब्दयोश्च पूर्वापरनियम इति पृथक् प्रत्येकं स्वरूपेण गृहीत्वा तदनन्तरमेतत् सर्व सङ्कलय्य संयोज्य तथा विशेषणविशिष्टत्वेन प्रत्येति विशिष्टबुद्धिर्नान्यथा। विशेषणावग्रहणे । (१४५)
'असिद्धिदृष्टे वस्तुनि। 'विपक्षे बाधनावर्शनात् ।
'जातिगुणक्रियाद्रव्यसम्बन्धभेवाच्चतुष्टयी शब्दानां प्रवृत्तिरिति सविकल्पपाक्निं निवेषति।