________________
प्रत्यक्षचिन्ता
एकत्र सक्त्या विषयासञ्चारलक्षणयाऽन्यस्य भिन्नविषयस्य ज्ञानस्योत्पत्तिवैगुण्यात् । अविगुणो हि समनन्तरप्रत्ययः स्वकार्यमारभते । न त्वासक्तिविगुणः । यच्चैतच्चोद्यं परिहृतमस्माभिस्तद् द्वयोरपि समानं युगपद्विज्ञानानुत्पत्तिवादिनोपि मते सर्व्वत्रैवेन्द्रियसंगमे समाने क्वचिदेव ज्ञानं क्वचिन्नेति कुतः । (१३९)
तत्रासक्तिवैगुण्यमेव मनस उत्तरं तच्च समानमस्माकमलातदृष्टिवदिति दृष्टान्तस्यासिद्धिमाह (1)
शीघ्रवृत्तेरलातादेरन्वयप्रतिघातिनी ।
चक्रभ्रान्तिं गाधत्ते न दृशां घटनेन सा ॥१४०॥
१५९
शीघ्रा प्रवृत्तिर्भ्रमणं यस्यालातादेस्तस्या 'न्वयेनानुगमेन प्रतिघात उपहतत्वं तद्वती दृग् दृष्टिश्चक्राकारां भ्रान्तिमिन्द्रियजां धत्ते । १ न दृशां भिन्नभिन्नदेशालातदर्शनानां घटनेन योजनया सा मानसी भ्रान्तिः स्फुटप्रतिभासत्वात् । मानसस्य च विपर्ययात् । तस्मादहिरहिरिति विकल्पसमकालमध्यक्षं वस्तु स्फुटमवैति न तु विकल्प इति स्थितं । (१४०)
केचिदिन्द्रियजत्वादेर्बालधीवदकल्पनाम् ।
आहुर्बालाविकल्पे च हेतुं सङ्केतमन्दताम् ॥१४१॥
केचिदाचार्ययाः शङ्क र स्वामि प्रभृतयः इन्द्रियजत्वादादिशब्दा 'दमानसत्वानुभवाकारप्रवृत्तत्त्वादेर्हेतोः प्रत्यक्षबुद्धिमकल्पनां बालधीवबाहुः। दृष्टान्तसिद्ध्यर्थं । बालस्याविकल्पे विकल्पाभावे च संकेतमंदतां हेतुमाहुः । वाच्यवाचकयोजना हि विकल्पः । सा च संकेतपूविका तदभावाद् बालस्य कल्पनाभावः । ( १४१ ) तेषां प्रत्यक्षमेव स्याद् बालानामविकल्पनात् । सङ्केतोपायविगमात् पश्चादपि भवेन्न सः ॥१४२॥
तेषामेवं वादिनां मते बालानां प्रत्यक्षमेव ज्ञानं स्यान्न विचारकं (1) किं कारणमविकल्पनात् । भवतु को दोष' इति चेत् । आह संकेतोपायस्य विचारस्य विग- 312 मांत् बालानां पश्चादपि स सङ्केतो न भवेत् । तदभावाद्विकल्पाभावश्च । (१४२). मनो व्युत्पन्नसङ्केतमस्ति तेन स चेन्मतः । एवमिन्द्रियजेपि स्याद् शेषवचेदमीदृशम् ॥१४३॥
१ स्वमतमाख्याय परमतं निषेधति ।
? तदालम्बनं ।