________________
१५८
प्र० वा० वृत्ती (२ परिच्छेदः)
सकृत् यु 'गपत्संगताः स्वस्वगोचरीभूताः सर्व्वेऽर्था' येषु तेष्विन्द्रियेषु चक्षुरादिषु मनः पर्यन्तेषु सत्स्वपीह" सङक्रान्तकान्तावदनप्रतिबिम्बस्य सहकारसुगन्धिनः शीतस्य भ्रमद्भ्रमरोपगीतस्य स्वादुनो मधुनः सार्व्वगुणानुभवकाले प्रसरत्संकल्पजन्मनां यूनां या मतिः पञ्चभिरिन्द्रियबुद्धिभिर्व्यवधानेपि त्वत्पक्षेऽव्यवहितेव समकालेव भाति । ( १३६)
सा मतिर्नाम पर्यन्त क्षणिकज्ञान मिश्रणात् ।
विच्छिन्नाभेति तच्चित्रं तस्मात् सन्तु सकृद्धियः ॥१३७॥
- सेन्द्रियमतिर्नाम्नः शब्दस्य पर्यन्तो वर्णस्तस्य क्षणिकं ज्ञानं तेन मिश्रणात् सरोरस इत्यादिष्वविच्छिन्ना प्राप्नोति । विजातीय विज्ञानान्तराव्यवधानात् । तथापि विच्छिन्नाभा क्रमवती । यत्तु चित्रमाश्चर्यं यदि लाघवकृतः सकृद्ग्रहाभिमानः तदा वर्णज्ञाने स नितरां युक्तो विजातीयाव्यवधानात् । इन्द्रियज्ञानेषु तु न युक्तः पञ्चभिर्व्यवधानात् । तस्मात्सकृद्धियः सन्तु यथोक्तं मनसो युगपंद्वृत्तेरि (२।१३३ ) ति । (१३७ )
अन्यथा (1)
प्रतिभासाविशेषश्च सान्तरानन्तरे कथम् ।
शुद्ध मनोविकल्पे च न क्रमग्रहणम्भवेत् ॥१३८॥
सान्तरे पञ्चभिरिन्द्रियज्ञानैर्व्यवहितत्वात् । अनन्तरे सरो रस इत्यादिके ज्ञाने विजातीयाव्यवधानात् प्रतिभासस्याविशेषश्चाप्रसक्तः ( 1 ) स चानुभवबाधितत्वात् कथमभ्युपगम इति शेषः । यदि लघुवृत्तित्वात् सकृद्ग्रहस्तदा शुद्धे विजातीयाव्यवकीर्णे मनोविकल्पे च प्राबन्धिके क्रमग्रहणमनुभवसिद्धं न भवेत् । (१३८) योऽग्रहः सङ्गतेप्यर्थे कचिदासक्तचेतसः ।
ननु यदि युगपत् ज्ञानोत्पत्तिस्तदैकत्रासक्तं पुनरुत्पत्तिधर्मकं चेतो यस्य तस्यासक्तचेतसः क्वचिदर्थे स्वेन्द्रियेण सङ्गतेपि योऽग्रहो विज्ञानानुत्पत्तिः स कथं ।
आह (1)
संक्त्या नोत्पत्तिवैगुण्याश्चोद्यं वै तद्द्द्वयोरपि ॥१३९॥
१ “युगपद्विज्ञानानुत्पत्तिर्मनसो लिङ्गमि " ( न्यायसूत्रे १।१।१६ ) ति दूषयन्नाह । २ 'युगपद्विज्ञानानुत्पत्तिपक्षे ।
* एकलोलीभूतवस्तुग्रहणात्मिका स्यात् ।
8
'युगपज्ज्ञानोत्पत्त्यनिष्टौ ।