SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षचिन्ता १५७ मनसोः सविकल्पाविकल्पयोरेकस्मात्समनन्तराद्युगपद् वृतेः कारणात्तयोरैक्यं विमूढः प्रतिपत्ता व्यवस्यति । निव्विकल्पकं हि स्वलक्षणविषयं विकल्पश्च वस्तुतोऽतद्विषयत्वेप्यवसायानुरोधात्तद्विषय: । सहोत्पत्तिश्चानुभवसिद्धत्वात् दुरपह्नवा । ततः सहोत्पन्नयोरेकविषययोरैक्यभ्रम एषः । पराभिमतायां युगपदनुत्पत्तावपि सविकल्पाविकल्पयोर्लघुवृत्तेः शीघ्रवृत्तेर्व्वा कारणात् तयोर्मूढमतिः प्रतिपत्ता ऐनयं व्यवस्यति अलातभ्रान्तौ चक्रमिव । (१३३) यदि दर्शनमविकल्पं तदनन्तरन्तु विकल्पः पुनस्तदनन्तरं दर्शनं तदा ( 1 ) विकल्पव्यवधानेन विच्छिन्न दर्शनम्भवेत् । इति चेद् भिन्नजातीयविकल्पेन्यस्य वा कथम् ॥१३४॥ विकल्पेन व्यवधानाद्विच्छितं दर्शनं भवेत् । न धारावाहीति चेत् । नन्वस्य परस्यापि गां पश्यतो निव्विकल्पेन प्रत्यक्षेण भिन्नजातीयस्याश्वादेव्विकल्पे जायमाने दर्शनं कथमविच्छिन्नं । न ह्यश्ववाचकशब्देन संयोज्य गौर्गृह्यते । येनैकमेव सविकल्पं तदध्यक्षं भवेत् । एकत्वे वाश्वप्रतीतिनं स्यात् । गोविषयत्वात्तस्य । (१३४) स्यादेतत् । अलातदृष्टिद् भावपक्षश्चेद् बलवान् मतः । अन्यत्रापि समानं तद् वर्णयोर्वा सकृच्छ्र तिः ॥१३५॥ अलातस्य भ्रम्यमानस्य नानादेशेषु लाघवाद् भावपक्षबलवत्वाच्च दर्शनप्रतिसन्धानेन चक्रवृष्टिवत् विजातीयव्यवकीर्यमाणस्य दर्शनस्यान्तरा अभावेपि 3ob भावपक्षो बलवान् मत इति दर्शना' विच्छेदबुद्धिरिति चेत् । अन्यत्राभावपक्षेपि तद्द्बलवत्त्वे लाघवसामर्थ्यात् समानं । ततो दर्शनविच्छेदलाघवाद्विच्छेदधीरेवास्तु । सरो रस इत्यादी वर्णयोर्वा लाघवात्स कृत्श्रुतिः प्राप्ता । ( १३५ ) ख. परमतदूषणम् किञ्च (1) सकृत् सङ्गतशब्दार्थेष्विन्द्रियेष्विह सत्स्वपि । पञ्चभिर्व्यवधानेपि भात्यव्यवहितेव या ॥ १३६॥ १ अस्पष्टः । * दृष्टाविमृष्टादौ । । तथा क्रमाभेदात्सकृत्श्रुतिभेवो न स्यात् ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy