SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १५६ प्र० वा० वृत्तौ (२ परिच्छेदः) - विशदप्रतिभासस्य तदार्थस्याविभावनात् । विज्ञानाभासभेदश्च पदार्थानां विशेषकः ॥१३०॥ संहृतेन्द्रियव्यापारस्य तदा संकेतसंकल्पकाले विष (श? )वप्रतिभासस्यार्थस्याविभावनात्। यदि तत्रार्थः प्रतिभाति तदेन्द्रियज्ञानवत् स्फुट: प्रतीयते। न च प्रतिभासभेदेपि शब्देन्द्रियज्ञानयोरेकविषयत्वं यस्माद्विज्ञानस्याभासभेव आकारभेदः पदार्थानां ग्राह्यानां (?णां) विशेषको भेदकः। यदि तु प्रतिभासभेदेप्याभेदस्तदा विश्वमेकं द्रव्यं स्यात् । (१.३०) स्यादेतत्। यदा स्वलक्षणमुपदर्य शब्दो निवेश्यते तदा स्वलक्षणमेव वाच्यवाचकमित्याह (1) चक्षुषार्थावभासेऽपि यं परोऽस्येति शंसति । स एव योज्यते शब्दैन खल्विन्द्रियगोचरः ॥१३१॥ -चक्षुषार्थावभासें पि, जाते तथा श्रोत्राच्छाब्दावभासेपि यमर्थमन्यव्यवच्छेदं बुद्धिपरिवत्तिनं परः प्रतिपादकोऽस्यार्थस्यायं वाचक इति शंसति कथयति स एवान्यव्यवच्छेदः शब्दयोज्यते न खल्विन्द्रियगोचरः स्वलक्षणमनन्वयात्तस्य। तद्दर्शनान्तरं संकेतसंकल्पे च विनाशाच्च । (१३१) . .. अव्याहतेन्द्रियस्यान्यवाङमात्रेणाविभावनात् । तथाऽव्यापतेन्द्रियस्यान्यवाङमात्रेण स्वलक्षणाविभावनात् प्रत्यक्ष इव। . स्यादेतत् (1) संकेताविषयत्वेपि शब्दसंसृष्टमेव स्वलक्षणमध्यक्ष प्रकृत्या प्रत्येष्यतीत्याह (1) . - न चानुदितसंबन्धः स्वयं ज्ञानप्रसङ्गतः ॥१३२॥ . . न चानुक्तिसम्बन्धो वाच्यवाचकभावो यस्य स शब्दः प्रत्यायको दृष्ट इति शेषः (1) तथाभ्युपगमे तु स्वयं संकेतमनपेक्ष्यैव श्रुताच्छब्दादर्थस्य ज्ञानप्रसङ्गतः। (१३२) नन्विन्द्रियव्यापारसमकालमहिरहिरिति धारावाहिसविकल्पकमध्यक्ष प्रवर्तते। यदि तु तत्र विकल्पकमविकल्पकञ्च द्वयमिष्यते तदा विकल्पेन निविकल्पस्य व्यवधानाद् दर्शन* विच्छिन्नं स्यात्। न चैतदस्ति। न युगपज्ज्ञानसम्भवः (1) अत्राह (1) १ मनसो युगपवृत्तेः सविकल्पाविकल्पयोः विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥१३३॥ ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy