________________
३५०
प्रत्यक्षचिन्ता सन्त्येवेन्द्रियधियः कल्पनास्तास्तु नोपलभ्यन्त इत्यप्यसत् । तथा हि।
१पुनर्विकल्पयन् किश्चिदासीन्मे कल्पनेहशी। मिििवनिमय इति वान वेत्ति चेति न पूर्वोक्तावस्थायामिन्द्रियाद् गतौ ॥१२५॥
विकल्पावस्थाया ऊवं पुनविकल्पयन पुमानासीन्मे कल्पनेशीति वेत्ति नेन्द्रियादुत्पन्नायां गतौ बुद्धौ संहृत्येत्यादिना पूर्वमुक्तावस्था यस्यास्तस्याः कल्पनांवेत्ति। यदि सा तत्र स्यादतत्संस्कारस्य स्मृतिर्जायते । तस्मान्नास्तीति निश्चीयते (१२५)
किञ्च (1) वाच्यवाचकाकारसंसर्गवती प्रतीतिः कल्पना। न चेन्द्रियविषयेनन्वयात् संकेताऽसम्भवाच्च शब्दयोजनास्ति (1) तथाहि (1) . एकत्र दृष्टो भेदो हि कचिन्नान्यत्र दृश्यते ।
न तस्माद् भिन्नमस्त्यन्यत् सामान्य बुद्धथभेदतः ॥१२६।। एकत्र दे'शादौ न दृश्यते न चाननुयायिनि शब्दसंकेतः। सामान्यमनुयायीति ' चेत् । तस्माद् भेदादन्यद् भिन्नं सामान्यं नास्ति बुद्धरभेवतः। (१२६)
यदि हि सामान्य सामान्यं स्यात् द्वयाकारा बुद्धिर्भवेत् । विशेषमात्राकारव तु प्रत्यक्षबुद्धिरुपलभ्यते।
तस्माद् विशेषविषया सर्वैवेन्द्रियजा मतिः। । ... न विशेषेषु शब्दानां प्रवृत्तावस्ति सम्भवः ॥१२७॥ - तस्मात्सर्ववेन्द्रियजा मतिविशेषमात्रविषयाऽन्यस्यानुपलब्धेः। न च विशेषेषु शब्वानां प्रवृत्तौ संभवोस्ति (१२७) .
अनन्वयाद् विशेषाणां सङ्केतस्याप्रवृत्तितः।
विषयो यश्च शब्दानां संयोज्येत स एव तैः॥१२८॥ विशेषाणामनन्वयात् तत्र संकेतस्या'प्रवृत्तितः। उत्तरकालं शब्दार्थप्रतिपत्त्यर्थ संकेतक्रिया। न च विशेषाः कालान्तरमनुवर्तन्ते। तस्माद्य एव शब्दानां विषयो 100 व्यवच्छेदः स एव तैः संयोज्येत न स्वलक्षणं । (१२८)
अस्येदमिति सम्बन्धे यावौँ प्रतिभासिनौ
तयोरेव हि सम्बन्धो न तदेन्द्रियगोचरः॥१२९॥ तस्मादस्यार्थस्येवम्वाचकमिति सम्बन्धे वाच्यवाचकभावलक्षणे यावर्थों प्रतिभासिनौ तयोरेव हि सम्बन्धो वक्तव्यः। यदा चार्थन्दृष्ट्वा सकेतं तत्र प्रवर्तयति तदेन्द्रियगोचरोऽर्थो नास्ति (। १२९)
'शब्दादेकत्र नियुक्तात्सर्वत्रार्थप्रतीतिः स्यात् ।