________________
१५४
प्र० वा. वृत्तौ (२ परिच्छेदः) स्मृति बिदुविद्वांसः । गृहीतार्थविकल्पेन स्मृतित्वं तच्चेहाविकलं। तस्य प्रतिपत्तव्यस्य चिह्नमव्यभिचारि लिङ्ग'न्तदपेक्षणानोचेद्विशेषदृष्टमनुमानं स्मृतिः सा तु लिङ्गनिरपेक्ष्या। नैतद्युक्तं व्यभिचार तः। तथा हि यदि लिङ्गन्त्रिरूपन्तदा व्याप्तिग्रहणविषयत्वेनैव तत्सिद्धर्व्यर्थमनुमान। अथ न त्रिरूपन्तदा नाव्यभिचारनिश्चयः। तस्माद्विशेषदृष्टस्याप्रमाणत्वादेकानेकवृत्तेरपि त्र्येकसंख्यापोहनाभावो निरस्तः । तस्मात्स्थितमेतन्मानं द्विविधं मेयद्वैविध्यादिति ॥(१२२)।
५. प्रत्यक्षचिन्ता (१) प्रत्यक्षलक्षणविप्रतिपत्तिनिरासः
क. कल्पनापोढं प्रत्यक्षम् इदानीमवसरप्राप्तां प्रत्यक्षस्य लक्षणविप्रतिपत्ति निराकर्तुमाह। १ प्रत्यक्ष कल्पनापोढं प्रत्यक्षेणैव सिध्यति ।
प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः ॥१२३॥ यत्तत्प्रत्यक्षमिति प्रसिद्धं तत् कल्पनाया अपोढं द्रष्टव्यं कल्पनार्थरहितमित्यर्थः। -तच्चैतदीदृशं प्रत्यक्षेणैव स्वसम्वेदनेनैव सिध्यति। कल्पनारहितस्यार्थस्य रूपस्य सम्वेदनस्यापरोक्षत्वात्। यदि तु कल्पनास्वभावत्वमस्य स्यात्तथैव प्रकाशेत । विकल्पस्यापरोक्षत्वात्। तथा हि प्रत्यात्मवेद्यः सर्वेषां प्राणिनां विकल्पो नामसंश्रयः शब्दसंसर्गवान् । स यदि स्यादुपलभ्य एव भवेत् ।। १२३) तस्मात् (1) २ संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना।
स्थितोपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥१२४॥ संहत्याकृष्य सर्वतो विकल्पनीयाच्चिन्तां स्तिमितेन साविकल्पविगमात् अधिक्षिप्तेनान्तरात्मना चेतसा स्थितोऽपि पुरुषश्चक्षुविज्ञानेन रूपमीलते साक्षजा निम्विकल्पा मतिः सर्व सम्विदितैव । (१२४)
स्मृते माअपेक्षा नान्त्यस्यास्ति। न स्मृतिरनिमित्तव। 'विशेषदृष्टे हि विशेषेणान्वयाभावात् त्रैरूप्यं। तदेवं लिङ्गजं प्रत्यभिज्ञानं दूषितं प्रत्यक्षजं दूषयिष्यते।
वेशादिकथयापि स्यात् प्रत्यभिज्ञानं न तदव्यभिचारि।