________________
अनुपलम्विचिन्ता
१५३ स्यादेतदत्र (1) यत्र दृष्टान्तदान्तिकयोर्भेदस्तत्र सामान्यतो दृष्टमनुमान इह तु।
निदर्शनं तदेवेति सामान्याग्रहणं यदि ।
निदर्शनत्वात् सिद्धस्य प्रमाणेनास्य किं पुनः ॥११९॥ तदेव दार्टान्तिकं निवर्शनमिति सामान्याग्रहणं ययुच्यते तदा निदर्शनत्वासिखस्य निश्चितस्यास्य दार्टान्तिकस्य प्रमाणेन किं कर्तव्यं । (११९)
विस्मृतत्वाददोषश्चेत् तत एवानिदर्शनम् ।
दृष्टे तद्भावसिद्धिश्चेत् प्रमाणाद् ; नाप्रसिद्धो दृष्टान्तः स चेत् सिद्धः किमनुमानेन गृहीतस्यापि विस्मृतत्वात्। पुनरनुमानप्रतीतावदोषश्चेत् । ततो विस्मृतत्वादेवानिदर्शनं। न हि गृहीतविस्मतस्य दृष्टान्तता। पूर्वप्रत्ययेन दृष्टेऽर्थे प्रमाणाद्विशेषदृष्टानुमानाद्य एव प्राग्दृष्टः स एवायमिति तब्भावस्य पूर्वस्य सिद्धिश्चेविष्यते (1) नन्वयं तद्भावः किमन्यवस्तुनि साध्यते उत तत्रैव।
अन्यवस्तुनि ॥१२०॥ - तत्त्वारोपे विपर्यासस्तत्सिद्ध रेप्रमाणता। - प्रत्यक्षतरयोरैक्यादेकसिद्धिद्वयोरपि ॥१२१॥ तत्रान्यवस्तुनि (१२०) वर्तमाने तत्त्वस्यातीतवस्त्वात्मकस्यारोपे स्वीक्रियमाणे विपर्यासो'ऽयथार्थत्वं स्यात्। न ह्यन्यस्यान्यात्मत्वमस्ति तदशक्यप्रापण-20 मुपदर्शयदप्रमाणं स्यात् । अथ तत्रैव तद्भावसिद्धिरिति द्वितीयः पक्षः। तदा तत्सि रेकसिद्धेविशेषदृष्टस्यानुमानस्याप्रमाणता गृहीतग्राहित्वात्। न टेकस्य निर्भागस्य किञ्चिदगृहीतं नाम। तथा हि प्रत्यक्षतरयोरध्यक्षानुमानविषययोरैक्यान द्वयोरपि प्रत्यक्षेऽनुमाने च एकस्यार्थस्य सिद्धिः। (१२१)
ततश्च दृष्टान्तग्राहिणवा भ्रष्टस्मृतिसंस्कारेण प्रत्यक्षेण सिद्धत्वात् विफलमनुमानं । प्रत्यक्षसंस्कारभ्रंशे तु नादृष्टान्तमनुमानमस्ति (1) तस्माद् (1)
सन्धीयमानं चान्येन व्यवसायं स्मृतिं विदुः ।
तल्लिङ्गापेक्षणानो चेत् स्मृतिर्न व्यभिचारतः ॥१२२।। अन्येनातीतदर्शनेन एकविषयतया सन्धीय'मानं घटयमानं परं व्यवसाय
'अभ्रष्टदर्शनसंस्कारं।
निश्चयं ।
२०