________________
१५२ प्र० वा. पती (२ परिच्छेदः)
यस्यामावः क्रियतासौ न मावः प्रागभाववान् ।
सम्बन्धानभ्युपगमानित्यं विश्वमिदं ततः ॥११६॥ यस्याभाव'स्योत्पत्तेः प्रागभावः कारणैरसौ क्रियते। न च कश्चिद् भावः प्राग्भाववान् सम्बन्धवाननभ्युपगमात् । ततः कार्याभावान्नित्यं विश्वमिदं प्राप्तं ।
__ कथन्तर्षभावेन सम्बन्धः। न कथञ्चित्। किन्तु बुद्धिपरिकल्पित एवासावित्याह (1)
तस्मादनस्किन्दिन्योऽभिन्नार्थाभिमतेष्वपि।
शब्देषु वाच्यभेदिन्यो व्यतिरेकास्पदं धियः ॥११॥ यस्माद्वास्तवसम्बन्धाभ्युपगमे दोषस्तस्माद् भावस्य प्रागभाव इत्यभिन्नार्थत्वेनाभिमतेष्वपि शब्दाद् भिन्नार्थाभिमतेषु च बीजस्याङकुर इत्यादिषु शब्बेषु षियोउमरकन्दिन्यः कल्पितसम्बन्धविषया वाच्यभेविन्यः । संकेतानुरोधादुपकल्पितसम्बन्धिसम्बन्धलक्षणवाच्यभेदवत्यो व्यतिरेकस्य सम्बन्धिसम्बन्धस्यास्पदं निमित्तं। भवन्ति। अलं वास्तवसम्बन्धानुबन्धेन दोषाश्रयेण । (११७)
तदेवं मेयबहुत्वाद् (व)हुतापि चेत्यत्र सानुषङ्ग प्रतिविहितं । अनेकस्य । - वृत्तरेकत्र वा यथा विशेषदृष्टनेत्यत्राह (1)
। विशेषप्रत्यभिज्ञानं न प्रतिक्षणभेदतः। अग्निं दृष्ट्वा क्रमेण धूमाल्लिङ्गात् तस्यैव विशेषस्य स एवायं वहिलरिति यत्प्रत्यभिज्ञानं न तत्प्रमाणं। प्रतिक्षणं भावस्य भेदतः एकार्थसाध्यार्थक्रियायाः सम्वादाभावात्। स्यादेतन्न यथा दृष्ट एव विशेषो गृह्यते किन्तु तत्सामान्यमित्याह (1)
न वा विशेषविषयं दृष्टसाम्येन तद्ग्रहात् ॥११८॥ . नवा विशेषविषयं तद्विशेषवृष्टमनुमानं वक्तव्यं प्राग्दृष्टस्य विशेषस्य साम्येन तस्योत्तरस्य ग्रहणात् । (११८)
'प्रध्वंसाभावस्य मृतकरणप्रसङ्गः। 'प्रागभावश्चेतन असम्बन्धात् । अघिय एव। "विशिष्टत्वाभावात् पूर्वनाशापरोत्पत्तेः स एवायमिति मिथ्याज्ञान।
अवस्था ।