________________
अनुपलब्धिचिन्ता गादिः कश्चित्सम्बन्धोस्ति य उच्येत षष्टयादिभिरिति चेत् एवन्तन्तियोः स षष्टयादियोगः कथं भवेत् । अभावयोर्व्यवधिभूता सत्तेत्यादि। (११२) .. किञ्च (1)
सत्तासम्बन्धयोधौव्यादन्ताभ्यां न विशेषणम् । सत्ता तत्सम्बन्धे परमते ध्रौव्यादन्ताभ्यां प्राक्प्रध्वंसाभावाभ्यां न विशेषणं स्यादन्तद्वयविशिष्टा सत्ता तत्सम्बन्धो वेति (1) न हि नित्यस्य सर्वकालव्यापिनोऽन्तसम्भवः।
- अविशेषणमेव स्यादन्तौ चेत् कार्यकारणे ॥१३॥ कार्यकारणे अन्तावभिमते इति चेत् तदा ताभ्यां सत्तासम्बन्धयोरविशेषणमेव स्यात् । (११३)
. असम्बन्धान भावस्य प्रागभावं स वांछति ।
तदुपाधिसमाख्याने तेप्यस्य च न सिध्यतः ॥११४॥ यस्मात् सनै या यि का दिर्भावस्यासम्बन्धात् प्रागभावं सम्बन्धिनं न वाञ्छति । तथा च तदुपाघिसमाल्याने प्रागभावविशेषणं कार्यकारणमिति समाख्यानं व्यपदेशो ययोस्ते तथा ते कार्यकारणेप्यस्य न सिध्यतः। यस्य हि प्रागभावः स भवन् कार्य स्यात्। न च तत्सम्बन्धो भावस्येति कार्याभावः। कार्याभावाच्च कारणाभावः। तदुत्पादकस्य कारणत्वात्। (११४) किञ्च (1)
सत्ता स्वकारणाश्लेषकरणात् कारणं किल ।
सा सत्ता स च सम्बन्धो नित्यो कार्यमथेह किम् ॥११५॥ जन्म सत्ताश्लेषः सत्तासमवायः स्वकारणेन समवायिना सह नित्यः। तयोः करणात् किल त्वयेष्टं कारणं। सा च सत्ता स च सम्बन्धो नित्यो द्वावपि कार्यम'थेह द्वयोर्मध्ये किं युक्तं। (११५)
अपि च (1)
'वक्तव्यः। - ? भावस्य परं। 'अतो यस्माद् भावः प्रागभावरहितस्ततो न क्रियते।