________________
१५०
प्र० वा० वृत्तौ (२ परिच्छेदः)
संघते उत्पादयति । तस्मादभ्यासवतामीक्षणादेवानित्यादिनिश्चयः अन्येषान्तु स्थिरारोपणार्थमनुमानमिति स्थितमेतत् । ( १०९)
अन्ये त्वाचार्यः प्राहुः ।
सिद्धोऽत्राप्यथवा ध्वंसो लिङ्गादनुपलम्भनात् ।
अत्र वर्णसन्तानविच्छेदकालेपि सन्तानविच्छेदलक्षणो ध्वंसोऽनित्यता न भावस्वभावात्मिका । स चानुपलम्भनाल्लिङ्गात्सिद्धः । नाध्यक्षाद् भावविषयत्वात्तस्य । कस्मात्पुनध्वंसोऽनित्यता इत्याह (1)
प्राग्भूत्वा ह्यभवद्भावोनित्य इत्यभिधीयते ॥ ११०॥
प्राग् भूत्वा हि भावः पश्चादभवननित्य इत्यभिधीयते न तु भाव इत्येव । तथा ध्वंस एवानित्यता सा चानुपलब्धिलिङ्गजाऽनुमानगम्या । (११०)
ननु प्राक् पश्चादभावयोर्व्यवघायकः सत्ता सम्बन्धोऽनित्यता न प्रध्वंसाभाव इत्याह (1)
'यस्योभयान्तव्यवधिसत्तासम्बन्धवाचिनी ।
अनित्यता श्रुतिस्तेन तावन्ताविति कौ स्मृतौ ॥१११॥
यस्य ने या यि का देवभयस्य प्राक् पश्चादभावस्यान्तस्य यो व्यवधायकः सत्तासम्बन्धस्तद्वाचिन्यनित्यता श्रुतिरिष्टा तेन वादिना तावन्ताविति को स्मृतौ ।
( १११)
प्राक् पश्चादप्यभावश्चेत् स एवानित्यता न किम् । षष्ठयाद्ययोगादिति चेद् अन्तयोः स कथं भवेत् ॥ ११२॥
प्रागभावः पश्चावभावोपि चेत् स एव प्रागभावः पश्चादभावोऽनित्यता किनेष्यते । सत्ताविशेषणत्वेनापि तदभ्युपगमस्येष्टत्वात् । पटस्य घटे चा भाव इति 29a षष्टचादिविभक्त्ययो ' गात् प्रध्वंसा' भावो नानित्यता । न हि भावाभावयोः संयो
तेषां प्रध्वंसाभावेऽनित्यताभिमता स यथा सिध्यति तद्दर्शयति ।
* उपलब्धिलक्षणप्राप्तस्यान्त्यक्षणस्य ।
* आकाशञ्चासदि (ति) विशिनष्टि द्विमध्यस्थेति ।
४ पृच्छत्ययुक्तत्वात् ।
* भावाभावयोर्व्विरोधान्न सम्बन्धषष्टचावि ॥ • कार्यस्य सत्त्या सहाशेषः ।