________________
अनुपलब्लिपिता तथा हि दीपावि(1)आदिशब्दात्तुरङ्गादिसन्तान विच्छेदकालेऽसंक्लिष्टोत्तरो- . वयमघटित उत्तरस्य उदयो जन्म यस्मिन् तमेकस्य स्वरसनिरोषित्वेपरस्य कारणाभावात्। अनुत्पत्तौ नाशिनमध्यक्षतः पश्यन्नलिङ्गङ्गमकलिङ्गरहितमाबालं बालपर्यन्तं जनः परिच्छिनत्येव । ततः प्रागपि सतः स्वरसनिरोधात् सदृशापरापरक्षणप्रचये स एवायमिति बुद्धिभ्रान्तिरेव । (१०५) ... यथा (1)
भावस्वभावभूतायामपि शक्तौ फलेऽदृशः।
अनानन्तर्यतो मोहो विनिश्चेतुरपाटवात् ॥१०६॥ भावस्यबीजादेःस्वभावभूतायामपि अङकुरादिजनिकायां शक्तौ फलेऽकुरादौ अनानन्तर्यतोऽवृशोऽदर्शनात् विनिश्चेतुः पुन्सोऽपाटवात् मोहोऽशक्तभ्रमः । तथा क्षणिकेषु भावेषु सदृशापरापरोत्पत्तेर्भावशून्यक्षणादर्शनाच्च स्थिरभ्रमः। (१०६)
तस्यैव विनिवृत्यर्थमनुमानोपवर्णनम् । - व्यवस्यन्तीक्षणादेव सर्वाकारान् महाधियः ॥१०७॥ - तस्यैकत्वभ्रमस्यैव निवृत्त्यर्थ सम्वादिलिङ्गजस्य क्षणिकता विषयस्यानु
मानस्योपकार्णनं निश्चयारोपमनसोबर्बाध्यबाधकभाक्त (१९५०) इति न्यायात्। ये तुमहाषियो विपरीतव्यवसायानाक्रान्तप्रत्यक्षा योगिनस्ते पदार्थस्य ईक्षणादेव सानाकारान् व्यवस्यन्ति निश्चित्वन्ति। (१०७)
एवञ्च (1) . व्यावृत्ते सर्वतस्तस्मिन् व्यावृत्तिविनिवन्धनाः।
बुद्धयोऽर्थे प्रवर्तन्तेऽमिन्ने भिन्नाश्रया इव ॥१०८॥ तस्मिन्नर्थे वस्तुतोऽभिन्ने निरंशे सर्वतः सजातीया विजातीयाच्च ब्यावृते यावत्यो व्यावृत्तयः सन्ति तावद् व्यावृत्तिविनिबन्धना निश्चयात्मिका बुखयो भिनाभया इव तत्तद्व्यावृत्तिमात्रविषयत्वेन भिन्नर्मिधर्मादिगोचरा इव प्रवर्तन्ते। (१०८)
बथाचोदनमाख्याश्च सोऽसति भ्रान्तिकारणे ।
प्रतिभाः प्रतिसन्धत्ते खानुरूपाः स्वभावतः ॥१०९॥ यथाचोदनं यथासंकेतमाल्याः शब्दाच प्रवर्तन्ते। यत्र व्यावृत्तौ यः शब्दो विनिवेशितः स च तस्यां निश्चितायां प्रवर्तते स भावोऽसति भ्रान्तिकारणे यथाभ्यासं स्वानुरूपाः स्वव्यावृत्तिसमुचिताः प्रतिभा निश्चयबुद्धीः स्वभावतः प्रति
'फलस्यानन्तरमभावात्